________________ 122 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [10 कारिकाव्याख्यायां प्रकाशः। ब्दध्वंसकारणकालाकाशयोः साध्याव्यापकत्वात् , तत्रान्त्यशब्दस्यैव तथात्वादिति सामान्यतः / विशिष्य तु, पिण्डोभूतो वह्निः कार्यानुकूलाद्विष्ठातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत् / न. चात्मत्वं नित्यत्वं वोपाधिः, स्पशैकत्वादिमति द्वयणुके साध्याव्यापकत्वात् / करवह्निसंयोगो वा पक्षः / नचात्मत्वं द्रव्यत्वं वोपाधिः, द्वथणुकैकत्वस्पर्शादौ साध्याव्यापकत्वात् / मण्यादिसमवहि. प्रकाशिका। करणत्वेन कालादिवदाकाशस्यापि शब्दध्वंसकारणत्वादिति भावः। पिण्डोभूत इति / वह्निमात्रपक्षत्वे द्वथणुकेंऽशतः सिद्धसाधन मिति तद्वारणाय पिण्डीभूत इति विशेषणम्-तस्य च प्रत्यक्षस्पर्शाश्रयत्वमर्थः / कार्यानुकूलत्वं च दाहानुकूलत्वं तदपि ताद्रूप्यसिद्धये, स्थितिस्थापकस्य च वहावभावेन व्यावर्तनीयाभावात् / यदि च तत्रापि स्थितिस्थापको मास्तु वा तथापि तमादायैवार्थान्तरमिति तद्वारणाय कार्यानुकूलत्वं विशेषणम् / तदापि दाहानुकूलत्वपरमेव तत् / अन्यथा तज्जन्यं कर्मादाय दोषतादवस्थ्यात् अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिबन्धकाभावः सिद्धसाधनवारणायाद्विष्ठेत्यादिविशेषणत्रयम् / न च प्राभाकरमतेऽभावस्याधिकरणात्मकतया समवा. यिपदं व्यर्थमेवेति वाच्यम् / भट्टमतेऽर्थान्तरवारकत्वात् / प्राभाकरमतेऽपि अतिरिक्ताभावसि द्ध्यैव प्रकृतानुमानपर्यवसानेनार्थान्तरवारकत्वात् / वस्तुतोऽन्वयार्थसम्बन्धवाचकपदोपादाने प्राप्ते समवायिपदस्यैवाखण्डार्थकस्योपादानादिति / व्यणुकैकत्वेति / समवायिपदस्य तन्निरूप्य. समवायाश्रयत्वमात्रमर्थ इति द्वथणुकमादाय साध्यसत्त्वं तत्र द्रष्टव्यम् / मण्यादीति / दाह. जनकवह्नौ हेत्वसिद्धिबाधयोः वारणाय मण्यादिसमवहित इति / आदिपदात् प्रतिबन्धकाभावेतरसकलदाहकारणलाभोऽतो न तद्व्यतिरेकमादायांशतः सिद्धसाधनम् / कारणान्तरवर्तिकारणताव मकरन्दः। पिण्डीभूत इति / कार्यानुकूलत्वं स्वकायानुकूलत्वम् / तदपि स्वनिमित्तकारणानुकूलत्वम् / तेन कर्मानुकूलस्थितिस्थापकेन नार्थान्तरम् / कर्मणि तु वह्निः समवायिकारणमिति नोक्तदोषः / वह्नौ स्थितिस्थापकानभ्युपगमे उद्देश्यसिद्ध्यर्थं तदिति ध्येयम् / अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिब. न्धकाभावादिनार्थान्तरवारणायाद्विष्ठादिपदम् / यद्यपि गुरुमतेऽभावोऽधिको नास्त्येवेति समवाविपदं व्यर्थ, तथापि परस्यार्थान्तरं स्यादिति तदुपात्तम् / करवीति / अत्र चाद्विष्ठपदं साध्ये त्याज्यम् / द्वयणुकैकत्वेति / तत्समवायित्वस्य तनिरूप्यसमवायाश्रयत्वार्थकतया समवायिद्वयणुकमादाय तत्र साध्यवत्त्वं बोध्यम् / मण्यादिसमवहित इति / मादिपदात् प्रतिबन्धकाभावेतरसकलदाहकारणमभिमतमिति न तद्वयतिरेके टिप्पणी। धर्माभावात् इति / विशिष्टाभावस्यासत्तिविशेषणाद्यभाव एवाभ्युपगतोऽन्यस्य कादाचित्कत्वस्वाभावात् / विशेषणाभाव विशेष्याभावनिष्टप्रत्यासत्तित्वस्यैत्यर्थः / तथा च विशेषणायभावसम्ब. न्धेन प्रत्येकेन विशिष्टाभावस्य कारणत्वादिकं वक्तुमशक्यमिति भावः // स्पर्शकत्वादिमतिद्वयणुक इति / त्रसरेणुपरिमाणे छ्यणुकैकत्वस्य तत्स्पर्श द्वयणुकस्पर्शस्य जनकत्वात् तस्य कार्याः नुकूलत्वम् स्वकार्यानुकूलेति विवक्षायां यद्यपि तयानं साक्षात् द्वयणुककार्यत्वं तथापि द्वयणुकस्पर्शादिद्वारा तदस्ति / द्वयणुकैकत्वस्पर्शादी साध्याव्यापत्वात् इति / वह्नित्रसरेणु रूपकाय्योनुकूलाद्विष्ठातीन्द्रियत्रसरेणुरूपधर्मसमवायसम्बन्धित्वरूपस्य साध्यस्यास्ति सत्वन्तत्रेति भावः / वस्तुतस्तु तत्समवायित्वं तन्निरूपितसमवायनिरूपकत्वमेव तथा च प्रसरेणुपरिमाणस्प