________________ प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः / 121 न चेदेव, शक्तिस्वीकारेऽपि का प्रतीकारः / तथाहि / प्रतिबन्धकेन शक्तिर्वा विनाश्यते तद्धम्मों वा, धर्मान्तरं वा जन्यते, न जन्यते वा किमपि ? इति प. क्षाः / तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः। विपरीतधर्मान्तरजनने तद. भावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादिविकल्पावका शश्च / तद्विनाशे तद्धर्मविनाशे वा पुनरुत्तम्भकेन तज्जननेऽनियतहेतुकत्वं, पूर्व स्वरूपोत्पादकादिदानीमुत्तम्भकादुत्पत्तेः / न च समानशक्तिकतया तुल्यजा. तीयत्वान्नैवमिति साम्प्रतम् / विजातीयेषु समानशक्तिनिषेधात्। न च प्रतिबन्धकशक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम् / तदनुत्पाद बोधनी।. दर्शित एवेति / एवमेकदेशिनं निराकृत्य शक्तिवादिनमेव प्रत्याह-न चेदेवम्-इति / मन्त्रादेः प्रतिबन्धत्वं तत्प्रयोक्तृणां प्रतिबन्धकत्वमित्यनभ्युपगमे शक्तिस्वीकारेऽपि त्वदुक्तसकलदूषणानां न निस्तार इति प्रतीकाराभावमेव दर्शयितुं यथासम्भबं विकल्पयति-तथा हि-इति / शक्तिविनाशः प्रतिबन्धः इति प्रथमः कल्पः, यावद्भावभावित्वाच्छक्तर्विनाशः तस्यास्तु कार्योदयानुकूल इति द्वितीयः, कार्यप्रतिकूलधर्मान्तरजननमिति तृतीयः, अकिञ्चित्करस्यैव प्रतिबन्धकत्वमिति चतुर्थः / अत्राऽऽनन्तर्यादन्तिमं पक्षं दूषयति-तत्र-इति / अतिप्रसङ्गान्निर्वचनानुपपत्तेश्चेति भावः / तदनन्तरं कल्पं दूषयपि-विपरीत-इति / विपरीतधर्माभावस्य कारणत्वं तावत् प्रस. ज्येत, तत्र च प्रागभावादिविकल्पावकाशः पूर्ववदेव स्यादिति / प्रथम द्वितीयकल्पावेकप्रसरेण दूष. यति तद्विनाश-इति / शक्तितद्धर्मयोर्विनाशे सति पुनरुत्तम्भके सति कार्यदर्शनात् तेन तयोरुत्पत्तिरङ्गीकार्या, तथा चानियतहेतुकत्वं, पूर्व शक्तिमदुत्पादकेनेदानीमुत्तम्भकेन तयोरुत्पत्तेरिति / ननु स्वरूपोत्पादकोत्तम्भकयोर्विजातीयत्वेऽप्येकशक्तित्वेन तुल्यत्वे संभवति नानियतहेतुकत्वप्रसक्तिरित्याशङ्कयाह-न च-इति / कारणमाह-विजातीयेषु इति / प्रवाहोनादिमानेषनविजात्येकशक्तिमानित्यत्र / ननु नोत्पादकः कारणशक्ति तद्धर्म वा जनयति, केवलं स्तम्भकस्य स्तम्भनशक्तिं निरुणद्धि, तेन नानियतहेतुकत्वप्रसङ्ग इत्यत्राह-न च-इति / तदनुत्पादेति। पूर्व प्रतिबन्धकविनष्टयोः शक्तिधर्मयोः पुनरुत्तम्भकेनाजनने तयोरनुत्पाद एव स्यात् , ततश्च कार्यस्याप्यनुत्पादप्र. प्रकाशः। म्यापि वहेर्दाहहेतुत्वावगमात् / अन्यथा शक्तिस्वीकारेऽपि त्वदुक्तदोष इत्याह / न चेदेव मिति तदभावे विपरीतधर्मान्तराभावे। पूर्व मिति। "नित्ये नित्यैव सा शक्तिरनित्ये भावहेतुजा" इति पराभ्युपगमादित्यर्थः / विजातीयेविति / शक्त्यनुकूलशक्त्यन्तरपरम्परानुसरणेऽनवस्थानश्चेति भावः / तदनुत्पादेति / प्रतिबन्धकेन वह्निशक्तिनाशादुत्तेजकेन प्रतिबन्धकशक्तिनाशेऽपि पुनर्वह्नौ शक्तिर्न स्यात् / पूर्वस्या नाशादन्यस्याश्च हेतोरभावादित्यर्थः / - नन्वनुमानमस्तु शक्ती मानम् / तथाहि कारणानि स्वजन्यानुकूलाद्विष्ठभावभूतातीन्द्रिय. धर्मवन्ति, कारणत्वात् , भात्मवत् / तत्रादृष्टं तथा सिद्धम् / नचाऽऽत्मत्वमुपाधिः। अन्त्यश प्रकाशिका / रिसमवधानात् / कारणानीति / एतच्च विप्रतिपत्तिस्थल एव व्याख्यातम्। अन्त्यशब्देति / अधि मकरन्दः। कारणानीति / तादृशधर्मवत्त्वेनानिश्चितानि नित्यकारणानीत्यर्थः / शेषं प्रागेव व्याख्यातम् / [पृ० 118 पं.५] न भवितव्यं कायंणेति / यथा तन्नाङ्गीक्रियते तथैतदपि नाजीकरणीयम्। तदुक्तौ तदात्मकानिटप्रसङ्गस्तवापि स्यात् / त्वया तत्परिहारे कृते तेनैतदपि परिहृतम्भवेदित्यर्थः 10 16 न्या० कु०