________________ 120 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [10 कारिकाव्याख्यायो स्वरूपतोऽभेदात् / तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् / प्रागभा. वावच्छेदककालोपाधिस्तदपेक्ष इतिचेन्न / मन्त्रात् पूर्वमपि तस्य भावात् / तस्मा. त् सामग्रीतत्काययोः पौर्वापर्यनियमात्तदभावयोरपि पूर्वापरभाव उपचर्यते / वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः। बोधनी। वति यत्प्राप्तिमन्त्राद्यधोना भवेदिति / नन्वौपाधिककालभेदप्राप्तिमन्त्राद्यधीना स्यादित्याशङ्कयाहतदुपाधेः-इति / अन हि पक्षे कालान्तरप्राप्तिर्नामावच्छेदकोपाध्यन्तरप्राप्तिरित्यवशिष्यते / तत्र कालोपाधिः सूर्यगत्यादिमन्त्रमन्तरेणापि स्वकारणाधीनः, तत्प्राप्तिश्च प्रागभावस्यानुत्पाद्यत्वेन स्वयमेव सिद्धति किमत्र मन्त्रादिना क्रियत इति। ननु कालमात्रभेदोपाधेमन्त्रायनपेक्षत्वेऽपि प्रा. गभावव्यवच्छेदककालान्तरोपाधिमन्त्रादिकमपेक्षते / न हि सूर्यगत्यादिमात्रभेदितः कालः प्रागभावं व्यवच्छिनत्ति कार्योत्पत्त्युत्तरकालमपि तस्य भावादित्याह-प्रागभाव-इति / अस्ति हि मन्त्रादेः पूर्वमपि प्रागभावावच्छेदककालोपाधिः, यदि पूर्वमपि प्रागभावस्तदवच्छेदकश्च कालस्तदुपाधिश्च कश्चिन्न स्यात् तर्हि तदानीं प्रागभावव्यवहारो न स्यादिति / यद्यनादित्वात् कार्यप्रा. गभावो नोत्पाद्यः कथं तर्हि कारणाभावात् कार्याभाव इति कार्यकारणाभावयोः कार्यकारणभावव्यवहारः। कालभेदे व्यपदेशश्च लौकिकानामिति शङ्कामुपपादयनाह-तस्मात्-इति / प्रागभावस्यानुत्पाद्यत्वादौपचारिकः प्रयोग इत्यर्थः / अथोपपादितं कार्यानुत्पादस्याप्रतिबन्धकत्वमुपसंहरति - इति-इति / कार्यानुत्पादविपरीतः प्रतिबन्ध इत्ययं न प्रतिबन्धत्वोपपादनमार्गः किन्तु पूर्वोप. प्रकाशः। प्रागभावावच्छेदकेत्यत्र कर्मधारयः / कालोपाधिमात्रस्य मन्त्रायजन्यत्वेऽपीति शेषः।। लोके कारणाभावात् कार्याभाव इति हेतुपञ्चमीप्रयोग औपचारिक इत्याह-तस्मादिति / मुरारिमिश्रास्तु-न प्रतिबन्धकाभावः कारणं, न वा शक्तिः, किन्तु तत्तत्कालीनदाहविशेष प्रति तत्तत्कालप्रतिबद्धतरवह्नः कारणत्वमिति प्रतिबन्धकाभावः कारणतावच्छेदको दण्डत्ववत् , न कारणम् / आकाशादौ त्वेकव्यक्तिके क्वचित् प्रतिबन्धेऽप्यन्यत्र शब्दोत्पत्तेरतथात्वेऽपि भेर्यादेरेव तथात्वेन कारणत्वमित्याहुः। तन्न / दण्डसंयुक्तचक्रत्वेन कारणत्वे सहकार्युच्छेदापत्तेः। अन्वयव्यतिरेकतौल्येनोभयस्यापि हेतुत्वं विनिगमकाभावादित्यस्यापि तुल्यत्वात् / यद्धर्मवत्त्वमवगम्यैव यत्र यदवगमस्तत्र तस्य तदवच्छेदकत्वात् / प्रतिबन्धकाभावमनवग. प्रकाशिका। प्रागभावावच्छेदकोऽन्यः कालोपाधिर्नास्त्येवेत्यत आह। कर्मधारय इति। तथा च प्रागभावाच्छेदककालोपाधिरित्यर्थः / यद्वा प्रागभावावच्छेदकस्य कालोपाधिरिति निरासायाह / कर्मधारय इति / प्रागभावावच्छेदकपदस्य कालोपाधिपदेन सममित्यर्थः / औपचारिक इति / कार. णकार्ययोरेव पौर्वापर्य परम्परासम्बन्धेनाभावनिष्ठत्वेन विवक्षितमित्यौपाचारिकत्वं न तु लाक्षणिकत्वं सुब्विभक्तौ तदभावादिति ध्येयम् / भेादेरिति / अतद्गुणसंविज्ञानबहुव्रीहिणा भेरीसंयोगादेरित्यर्थः / यद्धर्मवत्त्वमिति / न चैवं दृढ़दण्डत्वमपि सहकारि स्यात् तदनवगम्यापि दण्डत्वेन हेतोरप्रहादिति वाच्यम् / तस्य दण्डद्वारा चक्रादिसमवधानात् / इह तु तुल्यवदेवोभयोः सहका मकरन्दः / यद्धर्मवत्त्वमिति / एवं दृढदण्डत्वमपि सहकारि स्यादित्युक्तमनुमानप्रकाशे द्रष्टव्यम् /