________________ प्रथमस्तवके ] - अपूर्वस्थ चेतनधर्मत्वाक्षेपः / 114 सामग्रीवैकल्यं प्रतिबन्धपदार्थो मुख्यः, स चात्र मन्त्रादिरेव, न त्वसौ प्रतिबन्धकः। ततः किं तस्याकिञ्चित्करत्वेन / तत्प्रयोक्तारस्तु प्रतिबन्धारः / ते च किञ्चित्करा एवेति किमसमञ्जसम् / ये तु व्युत्पादयन्ति, कार्यानुत्पाद एव प्रतिबन्ध इति / तैः प्रतिबन्धमकुर्वन्त एव प्रतिबन्धका इत्युक्तं भवति / तथाहि, कार्यस्यानुत्पादः प्रागभावो वा स्यात्, तस्य कालान्तरप्राप्तिर्वा ? न पूर्वः तस्यानुत्पाद्यत्वात् / न द्वितीयः, कालस्य बोधनी। मुख्यशब्दः। स च प्रतिबन्धोऽत्राभावकारणत्वस्थितौ मन्त्रादिरेव स्यात् , अभावाभावस्य भा. वात्मकत्वात् / न त्वसौ मन्त्रादिः प्रतिबन्धकः / अतो मन्त्रादेरकिञ्चित्करत्वेऽपि न प्रतिबन्धकस्याकिञ्चित्करत्वं भवति प्रतिबन्धकस्य किञ्चित्करापेक्षायामनवस्थाप्रसजात् प्रतिबन्धकत्वप्रसङ्गाच्चेति / के तर्हि प्रतिबन्धका इत्यत्राह-तत्प्रयोक्तारः-इति / मन्त्रादिप्रयोक्कारः पुरुषाः प्रति. बन्धकाः, ते च मन्त्रादीन् प्रयुञ्जानाः किञ्चित्करा एवेति नानुपपद्यमानं किञ्चिदस्तीति / कार्यानुत्पादः प्रतिबन्धः, तं च कुर्वन्तो मन्त्रादयः प्रतिबन्धका इत्येकदेशिनां मतमुपन्यस्य निरस्यति-ये तु-इति / तस्य कालान्तरप्राप्तिरिति सामग्रीसमवधाने हि कार्यस्य प्रागभावो वि. नश्यति / सति तु प्रतिबन्धके पश्चात्तनमपि कालं व्याप्नोति / तेन प्रागभावस्य पाश्चात्यकालप्राप्तिः प्रतिबन्धकाधीनेति / तस्यानुत्पाद्यत्वात् इति / प्रागभावस्यानादित्वेनानुत्पाद्यत्वादिति / कालस्य स्वरूपत-इति / मुख्यतस्तावत् कालस्यैकत्वात् कालान्तरमिति न संभ 'प्रकाशः। कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्वात् / किन्तु मण्यायभावकूटस्य / स च तत्र . नास्त्येवेति भावः / मुख्य इति / प्रतिबन्धपदस्य सामग्यन्तर्गतकारणविगमार्थत्वादित्यर्थः / __ ये विति / तथाच कार्यानुत्पादहेतुतया मन्त्रादिरेव प्रतिबन्धक इत्यस्त्वित्यर्थः। काल. स्येति / कालप्रागभावस्वरूपातिरिक्तायास्तत्प्राप्तेरभावात् , स्वरूपस्य च तदजन्यत्वादित्यर्थः / प्रकाशिका। कारणीभूतप्रतीतौ विषयत्वं लक्षणप्रविष्टम् / कारणीभूतेति / न च मण्याद्यभावत्वेनोपस्थितानां कारणताग्रहे कारणीभूताभावप्रतियोगित्वरूपप्रतिवन्धकत्वग्रहे प्रतिबन्धकाभावत्वेन कारणतामहादन्योन्याश्रय इति वाच्यम् / प्रथमोपस्थितमण्यभावत्वादेरेव बाधकाभावेऽवच्छेदकत्वग्रहात् / उत्तेजकस्य मण्यादौ भिन्नभिन्नात्मकत्वेन विशिष्टाभावहेतुतायामेतस्य प्रकारस्याभावाच / एतेन कार्यानुत्पादप्रयोजकत्वमेव प्रतिबन्धकत्वं तदवच्छिन्नाभावत्वेनैव च हेतुत्वमिति नान्योन्याश्रय इति निरस्तम् / अनुपदमेवानुत्पादजनकत्वस्य मूलकृता दूष्यत्वाच्च / मण्याद्यभावेति / मणित्वाश्र. ययावंदभावकूटस्य मन्त्रत्वाश्रययावदभावकूटस्य चेत्यर्थः / न तु मणिसामान्याभावस्य मन्त्रसा. मान्याभावस्य चेत्यर्थः / उत्तेजकशून्यतापक्षे प्रागभावादिरूपतयाऽसम्भवात् / उत्तेजकतापक्षे च भिन्नभिन्नोत्तेजकवत्वेनासंभवात् , यस्य त्वेकजातीयस्य प्रतिबन्धकस्य एकजातीयमेवोत्तेजक तत्रास्तु सामान्याभावस्य कारणत्वमिति तत्रैव प्रन्थतात्पर्यम् / मकरन्दः / कारणीभूतेति / न च कार्यानुत्पादजनकत्वं तदिति नान्योन्याश्रय इति वाच्यम् / तस्यानुपदमेव दृष्यत्वादिति भावः / मण्यादीति / मणिमन्त्रादिसामान्याभावकूट इत्यर्थः / यद्यपि तत्तन्मण्यत्यन्ताभावकूटस्यापि हेतुतया न क्षतिस्तथापि मणित्वावच्छिन्नप्रतियोगिकसामान्याभावस्यैकत्वेन लघुत्वाद्धेतुत्वमिति मन्तव्यम् /