________________ 118 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 10 कारिकाव्याख्यायो हि तदुपगृहीतानामेव व्यवहाराङ्गत्वम् / सर्वत्रोपाधिमव्यवहारविलोपप्रसङ्गात्। एतेन प्रतिबन्धके सत्यपि तजातीयान्यस्याभावसम्भवात कार्योत्पादप्रसङ्गोऽनुत्पादे वा ततोऽप्यधिक किञ्चिदपेक्षणीयमस्तीति निरस्तम् / यथा हि तजातीये सति कार्य जायते मादसति न जायत इति स्थिते तद्भावेऽपि तजातीयान्तराभावान भवितव्यं कार्यणेति न, तयैतदपि / अनुकूलवत् प्रतिकूलेऽपि सति त. जातीयान्तराभावानामकिञ्चित्करत्वादिति / यत्त्वकिञ्चित्करस्येति / तदप्यसत् / बोधनी। ऽपि बीजे सत्यकुरो जायते तदभावे तु न जायते इत्यत्र व्यतिरेकादौ यदि बीजप्रागभावो विवि. क्षितः प्रध्वंसे जायेत, अथ प्रध्वंस इतरत्र जायतेत्यादिप्रसङ्गः, बीजाभावमात्रविवक्षायां तादात्म्याभावेऽप्यकुरानुदयप्रसङ्ग इत्यभिहिते च तादात्म्याभावव्यावृत्तस्य प्रागभावादित्रयानुगतस्य च संसर्गाभावत्वस्याङ्गीकार एव परिहार इति इतरेतराभावस्य सत्त्वेऽपीत्यत्र द्वितीयव्याख्वानोक्तामनुपपत्तिमनुभाष्य दूषयति / एतेन-इति / प्रतिबन्धके सति कार्य न जायते तस्मिन्नसति जायत इति प्रतिपादिते कथमनेनैतन्निरस्तमित्यत्रातिदेशमेव भावकारणवादसाम्येन विशदयतियथा हि-इति / बीजजातोये सत्य कुरोत्पत्तिरित्युक्तेऽर्थात्तदभावे तदनुत्पत्तिरिति सिद्धे एकस्मिन् बीजे सति बीजजातीयान्तराणामभावादकुराख्येन कार्येण न भवितव्यमिति न प्राप्नोति तथैतदपि / प्रतिबन्धके सति कार्यानुदयस्तदभावे सति कार्योदय इत्यत्रापि एकस्मिन् प्रतिबन्धके सति सजातीयान्तराणामभावाद् भवितव्यं कार्येणेत्येतदपि न प्राप्नोतीति / कुत इत्यत आहअनुकूलवत्-इति / कार्यानुकूले कारणे सति यथा तज्जातीयान्तराणामभावो न तस्य कार्य निषेधति तथा प्रतिकूलेऽपि कस्मिश्चित् प्रतिबन्धके सति प्रतिबन्धकान्तराभावेऽपि न कार्य विधत्ते अकिञ्चित्करत्वं निषेधे विधौ चेति द्रष्टव्यम् / अथ प्रतिबन्धकत्वान्यथानुपपत्ति दूषयितुं प्रतीकेनानुभाषते-यत्तु-इति / सङ्ग्रहं व्याचक्षाणो दूषयति-तदपि-इति / पूर्वार्थापत्तिसमुच्चयेऽपि सामग्रीवैकल्यं सामप्रथन्तर्भूतानामन्यतमस्य विगमः प्रतिबन्धकः / उभयवादिसिद्धिप्रदर्शनार्थो प्रकाशः। जात्यभावेऽपि संसर्गाभावत्वरूपकोपाधिनैव कारणत्वमित्यर्थः / न च तद् निर्वक्तुमशक्यम् / अधिकरणे प्रतियोगिनमारोप्य यत्र निषेधबुद्धिस्तत्र संसर्गामावो, यत्र तु प्रतियोगितावच्छेदकमारोप्य निषेधधीस्तत्र सोऽन्योन्याभाव इत्यस्मद्गुरवः / ननु प्रतिबन्धकाभावो न हेतुः / एकदण्डान्वये घटोत्पत्तिवदेकप्रतिबन्धकसत्त्वेऽपि तद. न्याभावात् कार्योत्पत्त्यापत्तेः / न हि यावत्कारणत्वावच्छिन्नं तावदन्वये कार्यमित्यत आह / एतेनेति / अभावकारणत्वाङ्गीकारेण / यथा बीजजातीये सत्यपि वीजान्तराणामभावादडरेण न भाव्यमित्ययुक्तं, तथेदमपीत्यर्थः / प्रतिबन्धकत्वावच्छिन्नप्रतियोगिताकः प्रतिबन्धक सामान्याभावः कारणम् / स च यावद्विशेषाभावनियत इति नैकप्रतिबन्धकसत्त्वे तदन्या. भावात् कार्योत्पत्तिः / यद्वा, प्रतिबन्धकाभावत्वेन न कारणत्वम् / अन्योन्याश्रयात् / प्रकाशिका। भिचारिणोऽपि तमादय तथासति नियतत्वापत्तेः। प्रतिबन्धकाभाव इति सति सप्तमी वयादावितिशेषः / अधिकरण इति / यद्यप्यधिकरणे प्रतियोगी संसर्गाभावप्रतीतौ नारोप्यो न वा प्रतियोगितावच्छेदकमारोप्यमन्योन्याभावप्रतीतावधिकरणे किन्तु भूतलवृत्तित्वं घटे प्रथमप्रतीतौ प्रतियोगी. चाधिकरणे तादात्म्येन द्वितीयप्रतीतो, तथापि प्रतियोगिसंसर्गतादाम्ययोरधिकरणे संसर्गविषया