________________ प्रथमस्तवके ] ... अपूर्वस्य चेतनधर्मत्वाक्षेपः। इत्यत्र संसर्गाभावमात्रस्यैव प्रयोजकत्वात् / - यस्तु संसर्गाभावतादात्म्यनिषेधयोर्विशेषमनाकलयनितरेतराभावेन प्रत्यपतिष्ठते, स प्रतिबोधनीयः / तथाप्यभावेषु जातेरभावात् कथं त्रयाणामुपग्रहः स्यात् , अनुपगृहीतानाञ्च कथं कारणत्वावधारणमिति चेत् / मा भूजातिः / न बोधनी। सति संसर्गिणि कार्य न जायते तस्मिन्नसत्यसंसर्गिणि जायत इत्यभ्युगमे संसर्गाभाव एक एव कारणम् / प्रागभावादयस्तु तद्विशेषा इति नानियतहेतुकत्वमिति / ननु संसर्गाभावः कारणमित्युकेऽपि संसर्गप्राक्प्रध्वंसादिविकल्पेनानियतहेतुकत्वं, तत्रापि संसर्गाभावस्वीकारेऽनवस्थेति चेत् , न / न ह्यत्र संसर्गस्याभावः कारणं यतो विकल्प्येत, किन्तु संसृज्यमानस्य मन्त्रादेः। न हि संसर्गः प्रतिबन्धकः संसृज्यमानस्यैव मन्त्रादेस्तथात्वादिति / - यत्तूक्तमितरेतराभावस्य सत्त्वेऽपि कार्यानुदयादिति तत्र प्रथमव्याख्यानेन यानुपपत्तिरुक्ता तां निराचष्टे-यस्तु-इति / प्रतिबोधनीयः=,तादात्म्याभावविलक्षणं संसर्गाभावम् / तद्विविधो ह्यभावः-इदमिह इदानी वा नास्तीति संसर्गतया यत्र प्रतियोगी निषिध्यते स संसर्गाभावः। तत्र संसर्गाभावभेदाः प्रागभावप्रध्वंसात्यन्ताभावाः, तेषामेव संसर्गितामापन्नप्रतियोगिनिरूप्यत्वात् ततश्चेतरेतराभावस्याप्रसक्तिरिति / नन्वस्तु तादात्म्याभावसंसर्गाभावयोर्विशेषः, तथापि प्रागभावादित्रयानुगतायास्तादात्म्याभावव्यावृत्ताया जातेरभावात् कथं त्रयाणामुपसंग्रहः, कथं वा तदनुपसंग्रहे व्यभिचाराच्छक्यावधारणं कारणत्वमित्याह-तथापि-इति / विनापि जातिमेकोपाध्युप. गृहीतानां त्रयाणां कारणत्वमवधारयामः, उपाधिश्चात्र संसर्गितापनप्रतियोगिनिरूप्यत्वमित्याशयवानाह-मा भूत्-इति / तथापि न तावन्मात्रेण कारणत्वं शक्यावधारणमिति चेत् / न, भवतो प्रकाशः। नन्वन्योन्याभावव्यावृत्तस्य संसर्गाभावत्वस्योपाभेरभावात् / प्रतिबन्धकसत्त्वेपि तदन्योन्या. भावात् कार्य स्यादित्यत आह यस्त्विति / प्रतिबोधनीयः= प्रतिबन्धा बोधनीय इत्यर्थः। तथाहि अन्वयव्यतिरेका. भ्यां व्याप्तिकारणत्वयोर्महे मीमांसकरपि संसर्गाभावस्य कारणत्वाङ्गीकारः। अन्यथा व्यापकसामग्न्योः सत्त्वेऽपि तदन्योन्याभावाद् व्याप्यकार्याभावापत्तेः। तवापि प्रतिबन्धकाभावेऽपि शक्तिरस्तीति प्रतिबन्धकसत्त्वे तदन्योन्याभावमादाय शक्तिसत्त्वप्रसङ्गश्चेति भावः। मा भूदिति / प्रकाशिका / भिचारमिति / यद्यपि विशिष्टाभावस्य सर्वत्रात्यन्ताभावतया नोक्तव्यभिचारशङ्का, अत एव संसर्गाभावत्वेन कारणत्वमिति सिद्धान्तोऽप्यनुपपन्नः। तथाप्युत्तेजकशून्यप्रतिबन्धकस्थलाभिप्रायेण शङ्का सिद्धान्तौ / नच तदसम्भवः / रूपादेः सजातीयप्रतिवन्धकतायामुत्तेजकाभावात् / नच तत्र समा. नाधिकरणरूपत्वेन प्रतिबन्धकतेति तदत्यन्ताभावस्याकारणतया संसर्गाभावत्वेनाहेतुत्वात्कथं सिद्धान्तसङ्गतिरिति वाच्यम् / लाघवेन रूपत्वेनैव प्रतिबन्धकत्वात् संसर्गाभावपदस्य कादाचित्का. भावपरत्वाद् वा। व्याप्यकार्याभावेति / न चान्योन्याभावमादायेष्टापत्तिरिति वाच्यम् / व्य. मकरन्दः। व्याप्यकार्येति / नचान्योन्याभावमादायेष्टापत्तिरिति वाच्यम् / तथा सति व्यभिचारिणोऽपि तथात्वपत्तेः। प्रतिबन्धकाभावे इति सति सप्तमी / वह्नयादाविति शेषः। संसर्गाभावलक्षणमनुमानप्र. काशे द्रष्टव्यम् /