________________ 116 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [10 कारिकाव्याख्यायो केवलप्रतिबन्धकाभावोऽविशिष्ट इत्यवधार्यताम् / अथैवम्भूतसामग्रौत्रयमेव कि नेष्यते ? कार्यस्य तद्यभिचारात् / जातिभेदकल्पनायाञ्च प्रमाणाभावात् / यथो तेनैवोपपत्तेः / भावे वा काममसावस्तु, का नो हानिः / प्राकप्रध्वंसविकल्पोऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्य न जायते तस्मिन्नसत्येव जायत बोधनी। च प्रतिबन्धकोत्तम्भकसद्भावे विशिष्टाभावः प्रतिपाद्यः निदर्शनत्वेनेतरयोरुपादानमिति / प्रकृतं विधात्रयमवलम्ब्य चोदयति-अथ-इति / केवलोत्तम्भकवती काचित् सामग्री, अन्या तु प्रतिबन्धकोत्तम्भकवती, द्वयाभाववती चान्येति सामग्रीत्रय कार्यस्यास्तु किमिति सर्वत्रैकरूप्यं प्रया. सेन साध्यत इति / परिहरति-कार्यस्य-इति / एकैकव्यतिरेकेऽपि कार्योत्पत्तेस्त्रयाणामप्यकारणत्वप्रसङ्गादिति / तृणारणिमणिन्यायमाशङ्क्याह-जाति-इति / ननु सामग्रीभेद एव तत्र प्रमाणमस्तीत्यत आह-भाव-इति / एवं सामान्यव्यभिचारं परिहृत्य प्राक्प्रध्वंसादिविशेषव्यभिचार परिहरति-प्राक-इति / कुत इत्यत आह-यस्मिन्-इति / यस्मिन् केवलप्रतिबन्धके प्रकाशः। न्तरमादाय पर्यवसानमिति तु तुल्यम् / यद्वा इह भूतले घटो नास्तीतिवत् संसर्गावच्छिन्नप्रतियो. गिकाभावविशेषस्य सति प्रतिबन्धके तत्राभावः। स च समयावच्छेदेन संसर्गितयाऽत्यन्ता. भाव एव / तादृशश्च मण्याद्यभावो घटाभाव इव भूतले करेऽपि वर्तते / नचैवं प्रागभावप्रध्वंसयोरप्यसिद्धिरत्यन्ताभावेनैव कालभेदात् कपाले घटो नास्तीति तज्जन्यबुद्धथुपपत्तेरिति वाच्यम् / अत्यन्ताभावस्य घटसत्त्वकालेऽपि सत्त्वात्तदापि घटो भविष्यतीति घटसत्त्वविरोधिबुध्यापत्तेः, प्रतियोगिसत्त्वविरोध्यभावस्वीकारात् / न च मणिसंयुक्तकरेऽपि तत्संयोगात्यन्ताभावोऽस्त्येव तस्याव्याप्यवृत्तित्वादिति तत्रापि दाहापत्तिः। समानाधिकरणप्रतियोगिसत्त्वविरोधिनस्तस्य हेतुत्वात् / प्रहरं मा दहेत्यत्र सावधिमन्त्रपाठे तु मन्त्रनाशेऽप्युद्देश्यत्वज्ञानाहितसंस्कारविषयकालस्य प्रतिबन्धकत्वमिति / अथेति / विशेषणाद्यभावत्रयघटितं सामग्रीत्रयमेव दाहहेतुरस्तु, किमनुगतेन विशिष्टाभावेनेत्यर्थः / कार्यस्येति / अन्योन्यव्यभिचारेणान्वयव्यतिरेकयोरशक्यग्रह. त्वादित्यर्थः / ननु तत्तत्कारणप्रयोज्यो दाहे जादिभेद इति न व्यभिचार इत्यत आह / जातिभेद इति / दाहे बैनात्यस्य योग्यानुपलब्धिबाधितत्वाद् योग्यव्यक्तौ चायोग्यजात्यभावादि. त्यर्थः / ननु तृणादिजन्याग्निष्विव कारणभेदव्यङ्गयो जातिभेदः स्यादित्यत आह / यथोक्तेने. ति / गौरवादिति भावः / तत्सत्त्वेऽपि न सिद्धान्तक्षतिरित्याह / भावे वेति। विशेषव्यभिचारमपाकरोति / प्रागिति / प्रतिवन्धकसंसर्गाभावसत्त्वस्योपाधेरनुगतानतिप्रसक्तस्य सत्वादित्यर्थः। प्रकाशिका / विचित्राभावकल्पनागौरवादाह यद्वति / संयोगावच्छिन्नकालविशेषसंसर्गी चेत्यर्थः। तेन समवायसम्बन्धावच्छिन्नात्यन्ताभावमादाय यत्पूर्व दूषणमाशङ्कितं तदपि निरस्तम् / विशेषव्य मकरन्दः / नुशयेनाह। यद्वेति / नचोभयपक्षेऽपि संसर्गाभावत्वेन तद्धेतुत्वमिति सिद्धान्तोऽनुपपन्नः। प्राग. भावादेविशिष्टाभावत्वाभावादत्यन्ताभावत्वादिनैव तथात्वादिति वाच्यम् / यत्र प्रतिबन्धक उत्तेजकमप्रसिद्धं तदभावे विशिष्टाभावत्वाभावेन तथात्वसम्भवादिति भावः / समानाधिकरणेति / प्रतियोगिवैयधिकरण्यावच्छिन्नस्येत्यर्थः। उद्देश्यत्वज्ञानाहितेति / एतच्चानुमानप्रकाशे विपश्चितम् /