________________ प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः। 115 प्रकाशः। बन्धकोत्तम्भकसद्भावे तदुभयाभावे वाऽविशिष्टत्वात् / __ननु उत्तम्भकप्रयोगे मणेरभावो न प्रागभावप्रध्वंसात्मा / तयोः प्रतियोग्यसमानकालत्वात् / न चोत्तम्भकाभावप्रध्वंसप्रयुक्तेनोत्तम्भकाभाववत्त्वेन मणेर्ध्वस एवेति वाच्यम् / क्षणभज्ञापत्तेरुतत्वात् / ध्वंसस्यानन्तत्वेनोत्तम्भकापनयेऽपि दाहप्रसङ्गाच्च / नाप्यत्यन्ताभावः / कादाचित्कत्वात् / न च विशेषणाद्यभावप्रत्यासत्तिकादाचित्कत्वात् कादाचित्कप्रतीतिकार्यानुदयाविति वाच्यम् / प्रत्यासत्तित्वावच्छेदकानुगतधर्माभावात् / विशिष्टविरोधित्वस्य च निरस्तत्वात् / मण्यादेः स्वावयववृत्तितया करादौ तदत्यन्ताभावस्य सदातनत्वात् / मणिसमवधानेऽपि दाहापत्तेश्च / मैनम् / क्लुप्तसंसर्गाभावत्रयवैधम्र्येऽप्यबाधिप्रतीतेस्तुरीयस्यैव तस्य सिद्धः। क्लुप्तविशेषबाधतः सामान्यबाधे क्लृप्तानादिसंसर्गाभाववैधाद् ध्वंसस्याप्यसिद्ध्यापत्तेः। अबाधितसामान्यबुद्धर्विशेषा. प्रकाशिका। व्यासज्यवृत्तितया तदवच्छिन्नाभावः प्रत्येकाभावेऽप्यस्तीति / प्रध्वंसप्रयुक्त इति / तद्व्यापक झ्यर्थो न तु तञ्जनित इति समानकालत्वादित्यवधेयम् / क्षणभङ्गेति / इदमापाततो वस्तुतो निमितेतरकारणनाशस्य द्रव्यनाशकत्वात् प्रकृते च तदभावाच मणिनाश इति तात्पर्यम् / प्रत्यासत्तित्वेति / ततस्वीकारे वा तदेव कारणतावच्छेदक(१) प्रतीतिविषयतावच्छेदकं चेति किमतिरिक्तविशिष्टाभावेनेति भावः। मकरन्दः। हितस्वरूपद्वयात्मकत्वे उक्तदोषतादवस्थ्यमिति चिन्त्यम् / 'नन्विति / यद्यपि सम्बन्धाभावस्य सिद्धान्तितत्वान्मण्यभावमादय शङ्का न युक्ता, तथापि विशेषणावच्छिन्नविशेष्याभाव एव विशिष्टाभाव इति तात्पर्यविषयीभूतमते निर्भरतया तदभिप्रायेण शकेयमिति बोध्यम् / प्रत्वासत्तित्वेति / भावे वा विशेषणाभावादेरेव तेन रूपेण हेतुत्वमस्त्विति भावः / तन्मताभिप्रायेणैव सिद्धान्तमाह / क्लृप्तेति / प्रकृते स्वरूपसन्धतया मणेरेव तत्संबन्धरूपत्वात्तदादाय शङ्कादिकमित्यप्याहुः / क्लुप्तेनैवोपपत्तावक्लृप्तरूपकरुपने गौरवादित्य. टिप्पणी। स्वरूपसम्बन्धत्वादिति / तादृशयोग्यत्वाल्लिङ्गितस्वरूपस्येत्यर्थः / योग्यत्वस्य निरूपयितुमशक्यत्वाद् व्यासज्यवृत्तिविशिष्टप्रत्ययविषयत्वं सम्बन्धत्वं तयोः स्वीकृत्य तदवच्छिन्नप्रतियोगिताकोऽयमभावः / वैशिष्टयावच्छिन्नविशेष्यनिष्ठप्रतियोगिताकोऽयमभावः स्वीक्रियत इत्यत्र ता. त्पर्य्यम् / तेन मण्यभावविकल्पविषयकस्य ननूत्तेजकेत्यायुत्तरप्रन्थस्य नासङ्गतिः। सम्बन्धाभावे तस्योत्थानासम्भवात् / अत एव तदुभयसम्बन्धस्य भूतलादावभावेन दण्डिपुरुषसत्त्वेऽपि दण्डी. पुहषो,नास्तीति प्रत्ययप्रसङ्ग इति शङ्को सुसमाहिता / अन्यथावच्छेदकत्वसम्बन्धावच्छिन्न प्रतियोगिताकोऽभावो वाच्यः / कालिकेन कार्यावच्छेदकदेशावच्छिन्नकार्यहेतुत्वं वा तस्य वाच्यम् / अवच्छेदकत्वस्यैव तन्नियामकत्वञ्च, अवच्छेदकत्वम्चेह गृहे भूतले वा दण्डपुरुषयोः सम्बन्धो न सर्वत्रेत्यनुभवसिद्ध इत्येच समाधेयं स्यादिति // 0 // नचात्तम्भकाभावप्रध्वंसप्रयुक्तेनेति / उत्पत्तिबिनाशशालितुरीयाभावाभिप्रायेण प्रागभावाभिप्रायेण वा // न च विशेषणाद्यभावप्रत्या सत्तीति / विशेषणाथभावरूपविशिष्टात्यन्ताभावरूपा प्रत्यासत्तीत्यर्थः। कादाचित्कत्वात् / कादाचित्कत्वप्रतीतीतिविशिष्टात्त्यन्ताभावकादाचित्केत्यर्थः / प्रत्यासत्तित्वावच्छेदकानुगत (1) तत्तत्प्रतीतिविषयप्रतियोगितावच्छेदकमित्यर्थः /