________________ 114 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजली [10 कारिकाव्याख्यायी प्रकाशः। द्विशिष्टाभावव्यवहारः, यतो यद्व्यवहारस्तदभावात्सदभावव्यवहारस्योचितत्वात्। अत एव यत्र यस्य सम्बन्धः स एव तत्र तस्य वैशिष्टयमिति नाननुगमः / तदिह प्रतिबन्धकोत्तम्भकाभावयोः सम्ब. न्धाभावः प्रत्येकाभावव्यापकोऽनुगतो दाहादिहेतुः, सर्वत्र प्रतिबन्धकोत्तम्भकाभावयोः सम्बन्धो नास्तीति प्रतीतेः / न चैवं प्रतिबन्धकोत्तम्भकाभावौ यत्र तत्रापि दाहापत्तिः, अभावाधिकरणयोरतिरिक्तसम्बन्धाभावादिति वाच्यम् / तदभावेऽपि स्वरूपसम्बन्धस्य भावात् / अथ तदुभय स्वरूपस्वरूपसम्बन्धाभावस्य हेतुत्वे तदुभयस्वरूपाभाव उत्तत्तम्भककाल एवेत्युत्तम्भकसत्त्व एव दाहः स्यात् / प्रतिबन्धकाभावोत्तेजकयोरेव तदुभयस्वरूपाभावरूपत्वादिति चेन्न / सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वस्य स्वरूपसम्बन्धत्वात् तदभावस्य च प्रतिबन्धकाभावे प्रति प्रकाशिका। एव सर्वत्र प्रतीतिविषयो दाहादिकारणं चेति सम्प्रदायमतमेव रमणीयमिति। अत एवेति / लक्ष्यस्याप्यननुगतत्वमेवेति भावः / आशयमविद्वान् शङ्कृते / मथेति / आशयमाविष्करोति / योग्य. त्वस्येति। तदालिङ्गितस्वरूपद्वयस्यैत्यर्थः / एवं च विशिष्टप्रतीतिविषयत्वलक्षणसम्बन्धत्वस्य मकरन्दः। भाव एव विशिष्टाभावः / तदनुगमकञ्च विशिष्टधीविषयाभाव त्वम् / विशिष्टधीविषयत्वस्य त्रितयानुगतत्वेन तदभावत्वेन तदभावानामप्यनुगतत्वसम्भवादित्याहुः / अत एवेति / लक्ष्यस्याप्यननुगतत्वमिति भावः। तदभावेऽपीति / अतिरिक्तसंबन्धाभावेऽपीत्यर्थः / संबन्धान्तरं विनेति / एतत् प्रत्यक्षप्रकाशे व्याख्यातम् / अस्यातिरिक्तसंवन्धरूपत्वे अपसिद्धान्तः / तदुप. टिप्पणी। तत्रेति शेषः। पत्र केवलोऽयन्नास्तीत्यत्र तात्पर्यम् , अन्यथात्यन्ताभावप्रत्ययस्यैवाप्राप्तेः। तदिहप्रतिबन्धकोत्तम्भकाभावयोः सम्बन्धाभाव इति / इदश्च विशेषणविशेष्ययोः सम्बन्धस्य स्वरूपसम्बन्धरूपतास्थले, तत्र सम्बन्धत्वस्य व्यासज्यवृत्तस्तदुभयसाधारणत्वात् / अन्यत्र सम्बन्धरूपवैशिष्टयावच्छिन्नाभाव एव तात्पर्य्यम् / अतिरिक्तस्य विशिष्टाभावस्योभयाभावस्य च स्वीक. रियमाशयः, अनुगताकारबुद्धरनुगतैकविषयत्वे विषयत्वसम्बन्धस्यैकत्रैव कल्पनाल्लाघवमन्यथानेकस्य तत्कल्पने गौरवम् प्रतीतिलाघवञ्च वस्तुलाघवादभ्यर्हितम् , तदेकशरणत्वाद्वस्तुनाम् / अन्यथा जात्यवयविसामान्याभावादीनामप्यसिद्धिः स्यात् / एतेन प्रत्येकाद्यभाव एव विशिष्टधर्मद्वित्वाद्वयवच्छिन्नप्रतियोगिताकत्वं कल्प्यं नातिरिक्तोऽभाव इति निरस्तम् / किश्च द्वयोर्मध्य एकस्याभावनिश्वयेऽपरसत्त्वानिश्चये विशिष्टाभावोभयाभावादिसंशयो न स्यात् / अतिरिक्तस्य तस्य तदभाव. स्य चानिश्चयात् / मास्तु वा संशयप्रतिबध्यप्रतिबन्धकभावानुरोधेनाभ्युपेयः सः, उभयाभावबुद्धिप्रतिवद्ध्यतावच्छेदकस्य वक्तुमशक्यत्वात् / प्रत्येकधविच्छिन्नाभावबुद्धित्वेन तथात्वेऽनेकप्रतिब. ध्यत्वापत्तेः / तत्प्रतिवध्यत्वस्य प्रत्येकधावच्छिन्न प्रतिबध्यत्वानतिरिक्तत्वे प्रत्येकधर्मावच्छिमबुद्धौ उभयाभाववुद्धचनापत्तेः / प्रतियोगितासम्बन्धेनोभयविशिष्टाभावबुद्धिस्वेन तथात्वे ह्यप्रसिदिः / उभयाभावबुद्धेर्नियमेन भ्रमत्वापत्तिश्च। घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्य तत्संसर्गत्वासम्भवात् / उभयधर्मावच्छिन्नप्रतियोगिताकत्वस्य प्रत्येकामावे स्वीकारे स्वीकृतमतिरिक्त प्रतियोगि. त्वम् / विवादोऽपि तत्रैव अनुगमस्यापि च सम्भवेनाभिलषितसिद्धिश्च घटत्वपटत्वयोरेवास्त्वव. च्छेदकत्वं द्वित्वस्य नेति न वाच्यम् / प्रतियोगिकोटौ द्वित्वमनवगाह्य तादशाभावाप्रत्ययात् / विनिगमकाभावेन तस्याप्यभ्युपेयत्वात् / लाघवमपि तत्रैव यत्र तद्विनापि प्रतीतिर्यथा प्रमेयत्वं विनापि बनिहर्नास्तीतिबुद्धिरित्यागृह्यम् // 0 // सम्बन्धान्तरं विना विशिष्टप्रत्ययंजननयोग्यत्वस्य