________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वाक्षेपः। 113 त्राविशिष्टः, तथा केवलेोत्तम्भकसद्भावे प्रतिबन्धकोत्तम्भकसद्भावे द्वयाभावे वा बोधनी। विशेष्यस्त्वस्ति पुरुषः। द्वयाभावे तु विशेषणमस्ति, नास्ति विशेष्यम् / अत्र सर्वत्र केवलस्य कैवल्य विशिष्टस्य पुरुषस्याभावः समान इति पक्षं निगमयति-तथा-इति। कार्योत्पत्तिसमयेषु सर्वेषु केवलोत्तम्भकसदुभावप्रतिबन्धोत्तम्भकसतभावद्वयाभावेषु प्रत्येक समुच्चितयोश्च विशेषणविशेष्ययोरभावात् केवलस्योत्तम्भकाभावविशिष्टस्य प्रतिबन्धकस्याभावोऽनुवृत्तः / अत्र प्रकाशः। केवलोऽयमासीत् पुरुष इत्यादौ विशेष्यवति, "सविशेषणे ही तिन्यायेन कैवल्याद्यभावस्यैव प्रतीतेः / अत एव विशेषणावच्छिन्नप्रतियोगिताको विशेष्याभाव एव विशिष्टाभाव; प्रत्येकाभावानुगतो हेतुरित्यपास्तम् / अत्रास्मत्पितृचरणाः-विशेषणविशेष्ययोः सम्बन्धाद्विशिष्टव्यवहार इति तयोः सम्बन्धाभावा प्रकाशिका। स्वीक्रियत इत्येवंविधक्षणिकतायामिष्टापतिः, न च नाशकाभावो विशेषणनाशसामग्र्या एव तथात्वात् / अत एव प्रत्यभिज्ञानमप्युपपन्नं विशेष्यतावच्छेदकावच्छिन्नाभावाभावात् / किं च विशिष्टाभावस्यात्यन्ताभावात्मकतया कथं तत्स्वीकार उत्पत्यव्यवहितक्षणवृत्तिध्वंसप्रतियोगितात्मकक्षणिकताप्रसङ्गः, तथापि लाघवात् प्रतियोगिविरोधित्वमेवाभावस्येति कथं मणिसत्त्वे तदभाव इत्यत्र तात्पर्यम् / स एवेति / व्यापकीभूयानुगमकतया हेतुतावच्छेदकः स्यादित्यर्थः / तेनात एवेत्याद्यग्रेतनं न पुनरुक्तमिति ध्येयम् / अतएवेति / तद्वति तदभावास्वीकारादेवेत्यर्थः / विशेषणविशेष्ययोरिति / यद्यपि सम्बन्धमात्राभावः क्वचिदपि नास्तीति तदुभयप्रतियोगिकत्व विशिष्टसम्बन्धाभावो वाच्यः, सोऽपि विशिष्टाभाव एवेति तन्निवंचनपरम्परायामनवस्था। किंचैवं दण्डिपुरुषसद्भावेऽपि भूतले दण्डिपुरुषाभावप्रतीत्यापत्तिः, तदानीमपि भूतले दण्डपुरुषसम्बन्धाभावात् / तथापि सम्बन्धत्वावच्छिन्न उत्तेजकाभावमणिप्रतियोगिकाभावः कारणं प्रतीतिबलेन तस्य स्वीकारात् / दण्डिपुरुषाभावस्थले तु संयोगावच्छि नतदुभयाभावस्य प्रतीतिविषयत्वमित्यत्र तात्पर्यम् / अत एव ननुत्तम्भकेत्याद्य प्रिमशङ्काप्युदेति , अन्यथा दाहपूर्व सम्बन्धस्यासत्त्वेन प्रतियोग्यसमानकालत्वादित्यादेस्तत्रत्यहेतोरनन्वयादिति / वस्तुतो विशेषणावच्छिन्नविशेष्याभाव मकरन्दः / मत एवेति / प्रतियोगितावच्छेदकभेदस्याभावभेदकत्वाभावादित्यर्थः / यद्यपि पूर्वाभेदः, तथापि पूर्व विशेष्यस्य सत एव विशेषणान्तरविरहादभाव इत्युक्तम् / संप्रत्यविद्यमान विशेष्यका. भिप्रायेणोच्यत इति न दोषः। विशेषणविशेष्ययोरिति / यद्यपि यत्किञ्चित्संबन्धाभावो न विशिष्टाभावोऽतिप्रसङ्गादिति विशेषणविशेष्योभयप्रतियोगिकसंबन्धाभावस्तथा वाच्यः, तदभावश्च विशेषणविशेष्योभयप्रतियोगित्वरूपविशेषणाभावात् क्वचिद् विशेष्याभावादित्यननुगमस्तदवस्थ एव। अधिकञ्चानुमानप्रकाशे दूषणमुक्तम् / तथापि विशेषणावच्छिन्नविशेष्यात्यन्ताभावस्तथेति विपश्चितमनुमानप्रकाशे द्रष्टव्यम् / किञ्च, यदि संबन्धाभावो विशिष्टाभावस्तदा भूतलादौ दण्डिनि सत्यपि नेह दण्डीति प्रत्ययप्रसङ्गः। दण्डपुरुषसंबन्धस्य दण्डपुरुषोभयमात्रनिष्ठतया तत्र तदानीमपि तदभावात् / न च भूतलावच्छिन्ने पुरुषे विशेषणसंबन्धाभावः स इति भूतलस्याधिकरणकोटिप्रवेश इति वाच्यम् / तथा सति विशेष्याभावे तादृशबुद्धयनुदयप्रसङ्गात् / तस्माद्विशेषणविशेष्यतदुभया. टिप्पणी। ऽन्योन्याश्रयत्वापत्तेः / एतेनाभेदे व्याप्यव्यापकभावेऽपि न क्षतिः। केवलोऽयमासीदिति / 15 न्या० कु०