________________ 112 व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाञ्जलौ [10 कारिकाव्याख्यायो प्रकाशः। तत्र तदभाव इति सहानस्थाननियमस्य विरोधस्यानुभवसिद्धत्वादिति चेन्न / स हि परस्पराभा रूपतया, परस्पराभावव्याप्यतया वा, तदाक्षेपकतया वा ? / नाद्यः। विशेषणाद्यभावस्य प्रत्येक विशिष्टाभावतया तत्प्रत्येकाभावाभावस्य विशेषणादेविशिष्टत्वापत्तेः / तदभावाभावस्य तत्त्वात् / न चोभयाभावाभाव एवोभयं विशिष्टम् / तथासत्यभावद्वयस्य विशिष्टाभावत्वे प्रत्येकाभावाद्विशिष्टाभावव्यवहारानापत्तेः / नान्त्यो। विशेषणाद्यभावस्य विशिधभावत्वे तदव्याप्यत्वात् , तदनाक्षेपकत्वाच्च / अभेदे तयोरभावात् / ____अथ विशिष्टानतिरेकेऽपि प्रतियोगिभेदादिव प्रतियोगितावच्छेदकविशेषणभेदादप्यभाबो भि. द्यते / यथा वायौ पृथिव्यादित्रयप्रत्येकरूपाभावे निश्चितेऽपि रूपत्वावच्छिन्नस्य तस्याभावानिश्च. याद्वायौ रूपं न बेति संशयः / एवमुत्तम्भकाभाववत्त्वेन मण्यादीनामभावः प्रतिबन्धकसत्त्वेऽप्युत्तम्भकाभावविरहादस्त्येवेति स एवानुगतो हेतुः स्यादिति चेत् / न / एवं क्षगरूपातीतविशेषणावच्छिन्नरूपत्वेन प्रतिक्षणं घटादिनाशे क्षणभङ्गापत्तेः प्रत्यभिज्ञानानुपपत्तेश्च / दण्डित्वावस्थायो प्रकाशिका। न च प्रतीतिरनुगता घटाभावपटाभावस्थल इति स स्वीक्रियतामिति वाच्यम् / _ विद्यमानप्रतियोगितावच्छेदकाश्रयप्रतियोगिविरोधित्वमभावस्य लाघवान तु प्रतियोगिताव. च्छेदकावच्छिन्नविरोधित्वं गौरवादित्याशयात् / न च सामान्याभावान्तरवत् द्वित्वावच्छिन्नप्रति. योगिताकोऽपि सामान्याभावः स्वीक्रियतामिति वान्यम् / उभयानधिकरणे तत्स्वीकारात् / तस्य च कारणत्व उत्तेजकविशिष्टमणिसत्त्वेऽपि दाहो न स्यादित्याशयात् / अभेदे तयोरिति। यद्यपि व्याप्यत्वमभेदेऽपि संभवति। तथापि विशिष्टाभावपदार्थस्य विशेषणायभावरूपतया तव्या. प्यत्वं नोभयानुगतमिति भावः / प्रतियोगिभेदादिवेति / न च प्रतियोगितावच्छेकस्य भेदकत्वे कुत्र प्रतियोगिभेदो भेदक इति वाच्यम् / व्यवहारानुरोधेन समनियतजातिद्वयस्वीकारे स्वा. श्रयावच्छिन्नतदुभयात्यन्ताभावयोः प्रतियोगिभेदादेव भेदात् / तदस्वीकारे च यथा प्रतियोगिभे. दादभावभेदस्तव, तथा प्रतियोगितावच्छेदकभेदान्ममेति फक्किकार्थः / स एवेति / व्यापकी भूयानुगमकतया हेतुतावच्छेदकः स्यादित्यर्थः / तेनात एवेत्याद्यतनमपुनरुक्तमेवेति ध्येयम् / क्षणभङ्गापत्तेरिति / यद्यपि विशेष्यतावच्छेदकावच्छिन्नध्वंसः परमुत्पत्तेरव्यवहितक्षणे न मकरन्दः / क्षणभङ्गेति / यद्यपि तादृशक्षणभङ्गो न दोषावहः, किन्तु विशे यतावच्छेदकावच्छिन्नप्रति योगिक एव तथा / तथापि प्रत्यभिज्ञानात् समवाय्यादिनाशाभावाच्च न घटादेनाशः, किन्तु विशे. षणस्यैव / न च विशेषणनाशसामग्र्येव विशेष्यनाशिका / नित्यमात्रापलापापत्तेरित्यर्थः / टिप्पणी। तदाक्षेपकतया वेति / तद्यापकाभावप्रतियोगितया तदभावस्येयं व्यतिरेकव्याप्तिः। तथा. सत्यभावद्वयस्य विशिष्टाभावत्वे इति / विशेषणाभावाभावस्य विशेषणमात्ररूपस्य विशेध्याभावाभावस्य विशेष्यमात्ररूपस्य मेलनं कृत्वा विशिष्टरूपत्वाभ्युपगमेऽभावद्वयस्यापि मिलितस्य विशिष्टाभावत्वापत्तिः / न चेष्टापत्तिः। तत्प्रत्येकाश्रये विशिष्टाभावव्यवहारानापत्तेरिति भावः। अभेदे तयारभावात् इति / विशिष्टविरोधित्वस्य विशिष्टाभावव्याप्यविशिष्टाभावाक्षेपकत्वरूपतया तयोरनुगतस्याभावात्। विशिष्टाभावस्य विशेषणायभावाभेदे सति विशेषणाभावव्याप्यत्वप्रवेशे विशेष्याभावस्य, विशेष्याभावव्याप्यत्वप्रवशे विशेषणाभावस्यासङ्ग्रहादतिरिक्तस्य विशिष्टाभावस्याभावात् विशिष्टाभावत्वस्य चानुगतस्य निरूप्यमाणत्वात् / विशिष्टविरोचितारूपस्यैव प्रवेशे