________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधमत्वाक्षेपः। . 111 प्रकाशः। केवलप्रतिबन्धकसत्त्वेऽपि तदभावाद्दाहापत्तेः। एकसत्त्वेऽपि द्वयमिह नास्तीति प्रतीतेः। तस्य समुदायविरोधिनो यावत्समुदायिसत्त्वे एव विरहात् / तादृशाभावानभ्युपगमाच्च / व्यासज्ज्यवृ. त्तिधर्मसमानाधिकरणप्रत्येकपर्यवसितप्रतियोगिताकाभावादेव तज्जन्यप्रतीत्युपपत्तेः / अथ विशिष्टविरोधित्वमेवानुगतं विशेषणाद्यभावानां कारणतावच्छेदकम् , यत्र विशिष्टं न प्रकाशिका। पकोऽभाव इत्यर्थः। केवलेति / ननु कैवल्यमुत्तेजकाभाववैशिष्ट्यं, न च तादृशे मणौ तदुभयवृत्तिद्वि. त्वावच्छिन्नप्रतियोगिताकोऽभावोऽस्तीति कथमेतदुच्यते व्यासज्यवृत्तिधर्मावच्छिन्नोत्तेजकाभावमणिप्र. तियोगिकाभावत्वेन कारणत्वं तदुभयमात्रवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकाभावत्वेन वा, अन्त्ये तादशेत्यादि दूषणमनुपदमेवाप्रे / आये तदुभयसत्त्वेऽपि तृतीयमादायाभावोऽस्त्येवेति दूपणमिति / अत एवैकसत्त्वेऽपि त्रयमिह नास्तीति युक्तः पाठः / द्वयमिह नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् / मिश्रास्तु केवलेत्यस्यैकेत्यर्थः / तथा च मणिसत्त्वेऽपि मन्त्राभावमादाय दाहापत्तिरित्यर्थः। एवं च द्वय. मिति पाठोऽपि सङ्गच्छत इत्याहुः / तच्चिन्त्यम् / उत्तेजकमण्यभावयोरेककारणत्वपर्यवसानेऽननुगम इत्याक्षेपे तदुभयस्थलानुगताभावस्य कारणत्वाऽऽशङ्कायामेतदूषणस्यार्थान्तरत्वात्। तादृशेति। मकरन्दः / योगिकतादृशाभावत्वेन वा ? / आये दोषमाह / केवलेति / उत्तम्भकाभावविशिष्टमणिसद्भावेऽपि घटादिकमादाय तदुभयप्रतियोगिकतादृशाभावसत्त्वाद्दाहापत्तेरित्यर्थः। एवं द्वयमित्यनेकोपलक्षणम् / अत एव लीलावतीप्रकाशे त्रयमिति पाठः / अन्त्ये त्वाह / तादृशेति / यद्यपि सामान्याभाववदुभयासत्त्वे व्यासज्ज्यप्रतियोगिकाभावोऽप्यभ्युपगन्तुमुचित एव / अन्यथा याव द्विशेषाभावैस्तदन्यथासिद्धथापत्तेः / तथापि तद्धेतुत्व उत्तेजकविशिष्टमणिसत्त्वेऽपि दहो न स्यादि त्येव दूषणं द्रष्टव्यम् / टिप्पणी। वा तत्रायस्य निराकरण केवलेति / तस्मादुभयप्रतियोगिकाभावात् त्रितयाभावात्मकाद् दाहाप. तेः / द्वयमित्यनेकमित्यर्थः / तथाचैकसत्त्वे द्वयन्नास्त्युभयसत्त्वे त्रयन्नास्तीत्यादिप्रतीतेरिति पर्यनस्यति / तस्य त्रितयाभावस्येत्यर्थः / द्वितीयं निराकरोति। तादृशाभावानभ्युपगमा. च्चेति। यद्वा व्यासज्य सर्वान् प्रतिवन्धकमणोनुत्तेजकाभावञ्च व्याप्या या प्रतियोगिता तदाश्रयप्रतियोगिकाभावः / मणित्वोत्तम्भकाभावत्वव्यापिका या सङ्ख्या तदवच्छिन्नप्रतियोगिताकाभावेत्यथः / तदुभयसमानाधिकरणसङ्ख्यावच्छिन्नाभावनिवेशे यत्किञ्चिन्मण्युत्तम्भकाभावोभयाभावस्यसर्वत्रैव सत्त्वाहाहापत्तेः। तादृशव्यापिका च संख्या यावन्मणिगतैव, तदवच्छिन्नाभावस्य ताशसंख्यावच्छिन्नयावन्म णिसत्त्वविरोधिन उत्तेजकाभावबिशिष्टैकमणिसत्वेऽपि सत्वे क्षत्यभावात् / एकमणिसत्त्वेऽपि मणिद्वयाभावप्रतीतेः समुदायाभावप्रत्यये बाधकाभावात् / यदि च एक उत्तेज काभाव एको मणिरिति सामान्यापेक्षाबुद्ध्या जायमानद्वित्वं सर्वान् मणीन् व्याप्यैव वर्तते, तथापि यकिञ्चित्तदुभयसत्त्वमेव तद्विरोधि तत्र सत्रैव सामान्यत उत्तेजकाभावप्रतिवन्धकमणी स्त इति प्रत्ययात् / या च एकोऽयं मणिरेकोऽयं मणिरित्यायखिलमणिगोचरापेक्षावुद्धया एकश्चोत्तेजकाभाव इत्यपेक्षावुद्धचा सर्वान् मणीन व्याप्य समुदायत्वलक्षणा संख्या जन्यते तदवच्छिन्नाभाव एव यत्किञ्चित्तदुभयविरोधीति प्रकृते नानुपपत्तिस्तादृशद्वित्वानभ्युपगमेऽपि यत्किञ्चित्तदुभयविरोधिद्वित्ववेनानुगतेन द्वित्वेन मणित्वेनोत्तम्भकाभावत्वेन चावच्छिन्नप्रतियोगिताक एव वा तादृशामा. वोऽनुगतस्तथापि नानुपत्तिरिति ब्रूयात् तमाह। तादृशाभावानभ्युपगमादिति /