________________ 110 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 10 कारिकाव्याख्याया चोत्तम्भकमन्त्र एवेत्यन्यैव सामग्रीति चेत् / न / विशिष्टस्याप्यभावात् / न हि दण्डिनि सत्यदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैव केवलस्येति युक्तम् / यथा हि केवलदण्डसद्भाव उभयसद्भावे द्वयाभावे वा केवलपुरुषाभावः सर्व बोधनी। प्रतिबन्धकः, तदभावश्च कारणमित्युक्तेऽपि तत्रोत्तम्भकाभावविशेष्यस्य मन्त्रादेः सत्त्वेऽपि विशेषणमात्रस्योत्तम्भकाभावस्याभावः, नतु विशिष्टस्य / स चोत्तम्भकाभावाभाव उत्तम्मकमन्त्र एव / तस्मादुत्तम्भकाभावविशिष्ट प्रतिवन्धकामावस्याभावादन्यैव सामग्री / न हि प्रतिबन्धकोत्तम्भकाभा. वविशिष्टा तत्सदभावविशिष्टा च सामग्री न भिद्यत इति च सम्भवति / अत्र स चोत्तम्भकमन्त्र एवेति सामग्रीभेददर्शनायोक्तम् / यद्वा, सत्त्वकार्यस्योत्तम्भक एव मन्त्रो न तु प्रतिबन्धकस्य प्रति. बन्धकत्वविघातमात्रहेतुरिति दर्शयति / यद्वा, न परं सामग्रीभेद एव किन्तु भाव एव, सामग्री स्यादिति दर्शयितुमिति / न इति / न केवलं विशेषणमात्रस्येति शेषः। न चोभयोः सत्त्वमसत्त्वं वा कारणं, किन्वसत्प्रतिपक्षप्रतिबन्धकाभावः स चाविशिष्टः सर्वत्रेति न सामग्रीभेद इति भावः। विशेष्ये विशेषणाभावेन न केवलं विशेषणमात्रस्यैवाभावः किन्तु विशिष्टस्यापीत्येतद् दृष्टान्तेनोपपादयति-न हीति / दण्डिनि सत्यदण्डत्वं विशेषणमेव नास्ति। तद्विशिष्टस्त्वदण्डः पुरुषोऽस्तीति / न हि वक्तुं युक्तमित्युपपादितं दृष्टान्तीकरोति यथा हि इति / केवलदण्डसद्भावे विशेषणमदण्डत्वं विशेष्यः पुरुषश्चोभयं नास्ति / सदण्डपुरुषसद्भावे तु विशेषणमदण्डत्वं नास्ति प्रकाशः। कारणमिति सामग्रीभेद इत्यर्थः / विशिष्टस्यापीति / विशेषणाद्यभावे सर्वत्र विशिष्टाभावोऽप्यस्तीति स एवानुगतः कारणमित्यर्थः। तदेवोदाहरणेनोपपादयति। न हीति / दण्डिनि सत्यदण्डानां दण्डाभाववतामन्येषान्नाभावः, किन्तु दण्डाभावस्यैवेति न, किन्त्वभावोऽस्त्येवान्येषामपीति लोकसिद्धमित्यर्थः / तदेव स्पष्टयति / यथा हीति / पुरुषे दण्डाभाववैशिष्टय कैवल्यम् , प्रतिबन्धके तूत्तम्भकाभाववैशिष्टयम् / यथा केवलदण्डसद्भावे विशेवणविशेष्योभयाभावाद्दण्डपुरुषसद्भावे विशेषणदण्डाभावविरहादुमयाभावे विशेष्यपुरुषाभावात् कैवल्यविशिष्टपुरुषाभावोऽनुगतोऽबाधितव्यवहारबलात् सर्वप्रतीतिसिद्धः, तथा केवलोत्तम्भकसद्भावे विशेषणविशेष्यद्वयाभावादुत्तम्भकप्रतिबन्ध कसद्भावे विशेषगोत्तम्भकाभावविरहादुमयाभावे च विशेष्यप्रतिबन्धकाभावादुत्तम्भकाभावविशिष्टप्रतिबन्धकाभावोऽनुगतो विशेषणाद्यभावव्यापको दाहकारणमित्यर्थः / ननु विशिष्टं नार्थान्तरं येन तदभावोऽनुगतः स्यात् किन्तु विशेषणविशेष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य कारणत्वे सामग्रीभेदस्तदवस्थः। न च व्यासज्ज्यप्रतियोगिताकोऽन्य एवायमभावः, प्रकाशिका। अन्य एवेति / प्रत्येकप्रतियोगिकाभावद्वयादन्य एवायं मिलितप्रतियोगिकस्तदुभयाभावव्या __ मकरन्दः। अन्य एवेति / प्रत्येकोभयाभावादन्य एव प्रत्येकाभावव्यापकोऽयमभाव इत्यर्थः / व्यास. उज्यवृत्तिधर्मावच्छिन्नोत्तम्भकाभावप्रतियन्धक प्रतियोगिकाभावत्वेन कारणत्वं ? तदुभयमात्रप्रति टिप्पणी। गमादिति / अदृष्टस्य प्रतिपक्षत्वेऽपीति / न च व्यासज्यप्रतियोगिताक इति / तेषामुतेजकाभावप्रतिबन्धकोभयप्रतियोगिकाभावत्वेनानुगतेन कारणता तदुभयस्वावच्छिन्नाभावत्वेन