________________ प्रथमस्तवकै ] अपूर्वस्य चेतनधर्मत्वाक्षेपः। 104 पस्यावर्जनीयतया सान्नधिन तु हेतुन्वेनेति चेत्, तुल्यम् / प्रतियोगिनमुत्सारयतस्तस्यान्यप्रयुकः सन्निविरिति चेत् , तुल्यम् / भावस्याभावात्सारणं स्वरूपमेवेति चेदभावस्यापि भावोत्लारणं स्वरूपान्नातिरिच्यते / तस्माद्यथा भावस्यैव भावो जनक इति नियमोऽनुपपन्नः, तथा भाव एव जनक इत्यपि / को ह्यनयोविशेषः / प्रतिबन्धकोत्तम्भकप्रयोगकाले तुव्यभिचारस्तदा स्यात, यदि यादृशे सति कार्यानुदयस्तादृश एव सत्युत्पादः स्यात् / न त्वेवं, तदाऽपि प्रतिपक्षस्याभावात् / मसत्प्रतिपक्षी हि प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्षः / स च तादशो नास्त्येव / यस्त्वस्ति, नासौ प्रतिपक्षः / तथापि विशेष्ये सत्येव विशेषणमात्राभावस्तत्र स बोधनी। भावादवर्जनीयसन्निधिरभावस्तथाप्यवर्जनीयत्वे भावस्यापि तत्तुल्यत्वमित्याशयवानाह-तुल्यम् इति / ननु अनन्यथासिद्धान्वयव्यतिरेकवतः कारणत्वम् , अमावस्तु कार्यविराधिनं स्वप्रतियोगिनं प्रतिबन्धकमुत्सारयन् सनिधत्ते न तु कार्यार्थमित्याह-प्रतियोगिनम् इति / तर्हि भावोऽपि कार्यविरोधिनं स्वाभावमुत्सारयन् सन्निधत्त इति शक्यते वक्तुमित्याह-तुल्यम् इति / अथ भा. वस्याभावाभावात्मकत्वेन न स्वरूपव्यतिरिक्तमभावोत्सारणं नाम किञ्चिदस्ति कार्य, तेन कार्यप्रयुक्त एव भावसन्निधिरिति चेत्तर्हि अभावस्यापि भावाभावात्मकत्वान्न स्वव्यतिरेकेण भावोत्सारणं नाम कार्यमस्तीति शङ्कोत्तराभ्यामाह-भावस्य इति / उपसंहारव्याजेन कार्यवन्मत इत्येतद् विवृणीति-तस्मात् इति / यथा प्रमाणबाधितत्वादेको नियमोऽनुपपनस्तथाऽपरोऽपि, द्वयोनियमयोर्वाधितताविशेषात् यद्वा, कार्यस्वकारणत्वयोः प्रमाणसिद्धत्वाविशेषादिति / यत्तूक्तम् उत्त. म्भकप्रयोगे सत्येव कार्योत्पत्तेव्यतिरेकव्यभिचारः प्रतिबन्धकाभावस्येति तत्राह-प्रतिबन्धक इति / यादश इति उत्तम्भकरहिते प्रतिबन्धे, सतीति प्रतिबन्धोत्तम्भकप्रयोगकालेऽपि कार्यप्रति. पक्षः प्रतिबन्धको नास्तीत्यर्थः / कीदृशस्तीह प्रतिबन्धकः यदभावात्तदा कार्यमुत्पद्यत इति / अत उक्तम् -असत्प्रतिपक्षा हि इति / उत्तम्भकापरपर्यायस्वप्रतिपक्षाभावविशिष्टो हि मन्त्रादिः प्रकाशः। तुल्यमिति / अभावस्यैव कारणत्वे भावसन्निधिस्तथेत्येव किन्न स्यादित्यर्थः / प्रतियोगिनमिति / विध्युत्सारणप्रयुक्तसन्निधिरभावस्येत्यन्यथासिद्ध इत्यर्थः / तुल्यमिति / भाव स्याप्यभावोत्सारणप्रयुक्तः सोऽप्यन्यथासिद्धः स्यादित्यर्थः / अभावस्यापीति। भावाभावयोः स्वरूपमेव मिथोबिरोधी, न तुत्सारणमन्यदित्युभयसमानमित्यर्थः / वस्तुतस्तु कुडयसंयोगाभावस्य गतौ, अनुपलब्धेश्चाभाबज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रामाण्यज्ञाने जनक. स्वस्य मीमांसकैरपि स्वीकारादभावस्य कारणत्वानभ्युपगमेऽपसिद्धान्त इति रहस्यम् / अनुपपन्न इति / प्रमाणाभावादिति शेषः। प्रतिबन्धकेति / तत्रापि प्रतिबन्धकस्याऽभावो, न तु तत्सद्भाव इति, न व्यतिरेकव्यभिचार इत्यर्थः। ननु प्रतिबन्धकोत्तम्भकसत्त्वे कथं प्रतिबन्धकस्याभाव इत्यत आह / असत्प्रतिपक्षी हीति। उत्तम्भकाभावविशिष्टो यः प्रतिबन्धकस्तस्याभावः कारणम् , स चोभयसद्भावेऽप्यस्तीत्यर्थः / प्रतिबन्धकाभिमत इति / प्रतिबन्ध एव प्रतिबन्धकः, स्वाथे कः / तत्त्वेनाभिमत इत्यर्थोऽतो न विरोधः / यस्त्विति / कार्याभावोन्नेय प्रतिपक्षत्वं कार्यसत्त्वे नास्तीत्यर्थः / तथापीति / ___ यत्रोत्तम्भकाभावे सति प्रतिबन्धकस्याभावस्तत्र विशेष्यप्रतिबन्धकस्यैवाभावः कारणम् / यत्र तु प्रतिबन्धकसद्भावे सत्युत्तम्भकसद्भावात् कार्य, तत्रोत्तम्भकाभावस्य विशेषणस्याभाव एव