________________ 108 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [ 10 कारिकाव्याख्यायो प्रतिबन्धो विसामग्री तहेतुः प्रतिवन्धकः // 10 // न ह्य मावस्याकारणत्वे प्रमाणमस्ति / न हि विधिरूपेणासौ तुच्छ इति स्वरूपेणापि तथा, निषेधरूपाभावे विधेपि तुच्छत्वप्रसङ्गात् / कारणत्वस्य भावत्वे. न व्याप्तत्वात्तनिवृत्तौ तदपि निवत्त इति चेन्न / परिवर्तप्रसङ्गात् / अन्वयव्यतिरेकानुविधानस्य च कारणत्वनिश्चयहेतो ववदभावेऽपि तुल्यत्वात् / अभा. बोधनी। नियतोत्तरभावित्वेनाभावः कार्य, तथा नियतपूर्वकालवर्तित्वेनाभावः कारणमपीति भावः। . विसामग्री सामग्र्यन्तर्गतकारणविगनः, सामप्रीवेकल्यमिति यावत् , मन्त्रादिश्च तथा, तदभावस्य सामग्रयनुप्रवेशात् / तेन मन्त्रादेःप्रतिबन्धकत्वाभावादकिञ्चित्करत्वं नदोषाय / कस्तहि प्रतिबन्धक इत्यत्रोक-तद्धतुः इति। मन्त्रादिप्रयोक्तारःप्रतिबन्धकाः ते तु किञ्चित्करा एवेति भावः॥१०॥ कारिको व्याचष्टे-न हि इति / तुच्छत्वमत्र प्रमाणमुक्तमित्यत्राह-न हि विधाति / किमत्र तुच्छत्वं ?-यद्यलीकत्वं तदसिद्धं, यद्यन्यरूपेणासत्त्वं तत्तर्हि भावस्याप्यविशिष्टं भावाभावयोरितरेतरानात्मकत्वात् / अत इदृशं तुच्छ्त्वमनैकान्तिकमिति / शकते-क रणत्वस्य इति / स्पष्टम् / न इति / कारणत्वस्याभावत्वेन व्याप्तत्वादभावत्वनिवृत्तौ कारणत्वमपि निवर्तत इति वकुं शक्यत इति / ननु न वयं तावत्त्वमात्रेण कारणत्वं ब्रूमः येनैवमुपालभ्येमहि, किन्तु कारणत्वनिदानमन्वयव्यतिरेको, ती चाभावस्येति तत्राह-अन्वय इति / नन्वाकाशादिवदवजेनीयसनिधितया नाभावः कारणमित्याह-अभावस्य इति / न तावदाकाशादिवन्नित्यत्वविभुत्वा प्रकाशः। मतः, तेनैवाभावोऽपि कारणम् / तथात्वेऽपि भावत्वव्याप्तं कारणत्वमिति यदि ब्रूयात्त. त्राह। कार्यवदिति / तयभावो नियतात्तरवर्तित्वेन कार्योऽपि न स्यात् , भावत्वव्याप्यत्वात् कार्यत्वस्य / अथ वैपरीत्यस्यापि सुवचत्वान्न तथा, एवमभावः कारणमपि, तत्त्वस्य भावत्वव्याप्यत्वे मानाभावादित्यर्थः / द्वितीयामापत्ति दूषयति / प्रतिबन्ध इति / सामग्यन्तर्गतमन्त्रायभावविगम एव प्रतियोगिरूपः प्रतिबन्धः, तत्कारणश्च प्रतिबन्धकः पुरुषो न तु मण्यादिः, स च किश्चित्कर एवेत्युभयसिद्धमित्यन्यथोपपत्तिरित्यर्थः / ननु तुच्छत्वमेव तत्र मानमुक्तमित्यत आह / न हीति / तुच्छत्वं हि भावनिषेधरूपत्वमुक्तम् / तच्चाप्रयोजकम् / अन्व. यादिरहितत्वस्योपाधित्वात् / न चान्यनिषेधरूपत्वेनैवाकारणत्वं, भावस्याप्यभावनिषेध. पत्वेनाकारणत्वापातात् / अथाकारणत्वे तन्त्रमस्वरूपत्वम् , भावश्च स्वरूपमेवेति मतं, तह्य भावेऽपि तुल्यमित्यर्थः / परिवर्चेति / कारणत्वमभावत्वव्याप्यमिति भावः , कारणं न स्यादित्यर्थः / नियतपूर्ववर्तित्वमात्रं कारणत्वं, तच्चाभावेऽप्यस्तीति भावः। कारणत्वप्राहकमप्युभयसाधारणमित्याह / अन्वयेति / न च सत्ताविशिष्टस्य कारणत्वं, जात्यादेरप्यतत्त्वापातादित्यर्थः। अभावस्यति / अन्वयायनुविधाने तुल्येऽप्यभावसन्निधिराकाशस्यैवाऽन्यथासिद्ध इत्यर्थः / मकरन्दः / करुपनादिति भावः। .. विधिरूपेणेति / तृतीयार्थः प्रतियोगितानिरूपकत्वरूपं वैशिष्टयम् / . AV N