________________ प्रथमस्तवके ] - अपूर्वस्य चेतनधर्मत्वाक्षेपः। 107 बन्धकत्वायोगात् / किञ्चित्करत्वे चातीन्द्रियशक्तेः स्वीकारात् / मन्त्रादिप्रयोगे चेतरेतरामावस्य सत्त्वेऽपि कार्यानुदयात् / अतोऽतीन्द्रियं किञ्चिदाहानुगुणमनुप्राहकमग्नेरुन्नोयते, यस्यापकुर्वतां प्रतिबन्धकत्वमुपपद्यते। यस्मिन्नविकले कार्य जायते / यस्यैकजातीयत्वादनियतहेतुकत्वं निरस्यत इति / अत्रोच्यते / भावो यथा तथाऽभावः कारणं कार्यवन्मतः॥ बोधनी। किमित्यत आह-किञ्चित्करत्वेऽपि इति / यत् किञ्चित् करोति सैवास्माकं शक्तिरिति / सिं. हावलोकितन्यायेन कार्यार्थापत्तिमेवोपसंक्रम्याह-मन्त्रादि इति / प्रयुज्यमाने मन्त्रादौ प्रतिबन्धके तदितराभावोऽस्त्येव तथापि कार्य न जायत एवेति / अथवा मन्त्रप्रयोगे मण्यादिप्रतिबन्धकाभावे सत्यपि कार्यस्यानुदयः। एवं मणिप्रयोगे मन्त्राभावेऽपि / एवमेकतरमण्यादिप्रतिबन्धकप्रयोगे तदितरमण्यादिप्रतिबन्ध काभावस्य सत्त्वेऽपि कार्यानुदय इति / तदुभयथाप्यन्वयव्यभिचारानाभावः कारणमिति / अर्थापत्तिभ्यां साध्यसिद्धिं निगमयति-अतोऽतीन्द्रियम् इति / तत्र यस्यापकुर्वतामिति प्रतिवन्धकार्थापत्तेरुपसंहारः, यस्मिन्नित्यादिना वितरस्य इति / तथाच सति शक्तिवादिनो न कश्चित् पूर्वोक्तदोष इति भावः // सिद्धान्तमाह-अत्रोच्यते / भाव इति / अत्र पूर्वार्धन कार्यार्थापत्तेरन्यथोपपत्तिरुपपाद्यते, उत्तरेणोत्तरस्याः / अयमर्थः-येन हेतुना भावः कारणं भवति तेनैवाभावोऽपि। न भावो भाव इत्येव कारणं किन्तु कार्येणानुविहितान्वयव्यतिरेक इति, तच्चाविशिष्टमभावस्यापीति सोऽपि कारणम् / तुच्छत्वादकारणत्वे तत एव कार्यत्वमपि न स्यात् , क्रियते च प्रध्वंस इत्याह-कार्यवत् इति / यथा बन्धजनकत्वात्तत्त्वं तत्राह। किञ्चित्करत्व इति / प्रतिबन्धकाभावमात्रकारणत्वे दुषणान्तरमाह / मन्त्रादीति। यदि प्रागभावादिष्वनुगमकमभावत्वमेव, तदाऽन्योन्याभावेऽपि तदस्तीति प्रतिबन्धकसत्त्वेऽपि तदन्योन्याभावमादाय कार्योत्पत्तिप्रसङ्गः। संसर्गाभावत्वञ्च तद्व्यावृत्तं निर्वक्तुमशक्यमित्यर्थः / सिद्धमर्थमुपसंहरति / अतीन्द्रियमिति / ननु अनुगुणत्वं कार्याभावव्याप्याभावप्रतियोगित्वं सहकारिणोऽप्यस्तीति शक्तः सहकारित्वा भ्युपगमेऽपसिद्धान्तः / शक्तिमत्कारणं न शक्तिरिति स्वीकारादिति विशिनष्टि / भनुग्राहकमिति / कारणतावच्छेदकमित्यर्थः / यस्यापकुवंतामिति / कर्मणः कारकस्यैव सम्बन्धमात्रवि वक्षया षष्टी / यस्येत्यनन्तरं स्वरूपमिति शेष इत्यन्ये। तथाच कारणतावच्छेदकशक्तेः प्रतिबन्धकेन नाशात् सति प्रतिबन्धके कार्याभाव उपपद्यते / नित्यानित्यघटितसामग्यो नित्यकारणशक्तरनुत्पन्नभावत्वेनानाशेऽप्यनित्यकारणशक्तिनाशात् कार्याभावः। नचैवं पुरुषान्तरस्यापि ततोऽग्नेर्दाहानुत्पत्तिः / प्रतिनियतकरतलानलसंयोगगतदाहानुकूलशक्ते शादिति भावः / शक्तः प्रदेशान्तरेऽप्युपयोगमाह / यस्यति / तृणादीनां व्यभिचारात्कारणत्वमनुपपद्यमानमनुगतसामयंमतीन्द्रियं कल्पयतीत्यर्थः। भावो यथेति / यथा येन प्रकारेणान्वयाद्यनुविधानेन कारणत्वग्राहकेन भावः कारणं प्रकाशिका। धकत्वेति / प्रतिबन्धकपदवाच्यत्वेत्यर्थः। संसर्गाभावत्वं चेति / संसर्गप्रतियोगिकत्वं च तत्प्रतियोगिकान्योन्याभावेऽतिव्याप्तमिति भावः / प्रतिनियतेति / फलबलेन तथा कल्पनादितिभावः। मकरन्दः। तस्याभ्युपगमादेतदुक्तमित्येके / तदेकदेशिमतेनेदमित्यन्ये / प्रतिनियतेति / फलबलेन तथा प्रकाशः।