________________ * प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः। 105 तु जायते, तत्र न दृष्टवैगुण्यमुपलभामहे / नापि दृष्टसाद्गुण्येऽदृष्टवैगुण्यं सम्भावनोगम् , तस्यैतावन्मात्रार्थत्वात् / अन्यथा, कर्मण्यपि विभागः कदाचिन्न बोधनी। तिमाशङ्कथाह-तत्र-इति / एतावन्मात्रार्थत्वादिति / दृष्टकारणसमवधानमात्राद्यर्थत्वादष्टस्येति / एतदेव कुत इत्यत आह-अन्यथा-इति / यदि दृष्टकारणसाद्गुण्यातिरेकेणाह प्रकाशः। कार्याभावव्याप्याभावप्रतियोगित्वं कारणतदवच्छेदकोभयसाधारणमिति नापसिद्धान्ताप्रसिद्धी / अर्थापत्तौ दृष्टादृष्टान्यतरवैगुण्येनान्यथोपपत्ति निराकरोति / तत्रेति / दाहकोष्णस्पर्शस्य पूर्ववत् सत्त्वादित्यर्थः / न च मन्त्रादिना स एव नाश्यते, पुरुषान्तरेगौडण्यानुभवादिति भा. पः। तस्येति / अदृष्टस्य दृष्टसाकल्यमात्रार्थत्वादित्यर्थः। ननु परमाणुकर्मणि, अध्ययनतुल्यत्वेऽप्येकत्र फलाभावे, बन्ध्यासम्प्रयोगे चादृष्टविलम्बो दृष्टो रष्टोपसंहारे सत्यपि / मैवम् / अदृष्टविलम्बो हि न तावन्नाशानुत्पादौ / मण्याद्यप सारणानुपदं दाहाभावापत्तेः। अदृष्टोत्पादकस्य तत्राभावात् / अदृष्टजनकशौचाऽऽचमनादेः साधारणस्याप्यत्रान्वयापत्तेः / अशुचेरेव च तदुत्पादे शौचे सति तदभावापत्तेः / अदृष्टान्ताभावस्य च तत्राभावात् / कदाचिहाहात् / दाहादिकार्यविशेषे यावदृष्टसमवधानेऽवश्यमदृष्टसद्भाबात्तदभिप्रेत्य एतदुक्तमित्यन्ये / ननु मण्यादिना दाहप्रतिपक्षस्यादृष्टभेदस्योत्पादनाद्दाहस्याभावः स्यात् / न चाग्न्यन्तरेणापि तस्य दाहाभावापत्तिः / प्रतिनियताग्निसाध्यदाहप्रतिपक्षस्यैवादृष्टस्यानेन जननात् / औषधिलि. तकाष्ठादिषु लेपकारिपुरुषनिष्ठस्य तस्योत्पादनात् / अदृष्टविशेषार्जितप्रतिपक्षसमवधानस्य वा प्रतिबन्धकत्वम् / स च दाहाभावकम्प्यः / मैवम् / तस्योत्तेजकाभावविशिष्टमण्यजन्यत्वे नियमेनादाहार्थिनस्तत्राप्रवृत्त्यापत्तेः / तज्जन्यत्वे तु प्रथमोपस्थितोपजीव्यत्वेन तदुत्पादकस्यैव हेतु. स्खौचित्यात् / प्रतिबन्धकामावहेतुत्वस्य तथाप्यभ्युपगमात् / अन्यथेति / अविनश्यदवस्थकर्मण्यपीत्यर्थः / अतो यदभावात् कार्याभावस्तद्वयादावभ्यु प्रकाशिका। प्तिरिति वाच्यम्। अनित्यकारणमात्रपक्षत्वे प्रागभावगर्भस्यैवादुष्टत्वात् / इदश्चात्मनोऽपि दृष्टान्तार्थ मुक्तम् वस्तुते।ऽनुकूलत्वमवच्छेदकत्वमेव दृष्टान्तश्च धर्मत्वादिकमादाय धादिरेवेति ध्येयम् / मशुचेरेवेति / यद्यपि शोचाशौचयोरन्यतरसत्वेऽपि कस्य चिददृष्टस्योत्पत्तिर्भवत्येव, तथाप्यदृष्टजनकत्वमेव तत्र नास्ति, न चोनेजकाभावसहितमणिरेव तथा, तस्यादृष्टजनकत्वे मानाभावादित्येव दूषणम् / क्वचिददृष्टस्य साक्षात्प्रतीतिप्रतिबन्धकत्वं यदि सिद्धं तदान्यत्रापि तथैव कल्प्यते क्लुप्तजातीयत्वादित्यरुचि विभावयति अन्य इति / लेपेति / स्वयमौषधलिप्तकाष्ठस्थले चौषधलेपकारि पुरुषसमवेतमेवादृष्टमिति भावः। तजन्यत्वे त्विति / वस्तुतस्तस्य जनकत्वे मानाभाव एवेत्युक्तम् / मकरन्दः। प्रसिद्धिरित्युभयानुगतमाह / कार्येति / व्याप्तिश्च कालिकी / न च प्रागभावगर्भतया नित्यशक्कावव्याप्तिः / अनित्यकारणमात्रपक्षत्वे तथाप्यदोषात् / लेपेति / दैववशादौषधलेपाद्वा अदाहप्र. टिप्पणी। - नापसिद्धन्ताप्रसिद्धी इति / कारणतावच्छेदकतारूपत्वेऽदृष्टस्यात थात्वाद् दृष्टन्ताप्रसिद्धिः। कारणतारूपत्वे शक्तेरतथात्वाभ्युपगमादपसिद्धान्तः। ननु परमाणुकर्मणोति / इतरसकलकारणे सत्यपि परमाणुक्रियायाः प्रलयादौ विलम्बे / अध्ययनतुल्यत्वेऽपीति / शिष्ययोरिति शेषः। बन्ध्यासम्प्रयोगे चेति / फलाभाव इत्यनुषज्यते / हेतुत्वौचित्वादिति / नचेष्टापत्तिः, 'नच प्रतिबन्धकेत्यादिना मूल एव निराकरिष्यमाणत्वात् / तथाप्यभ्युप१४ न्या० कु०