________________ 104 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 10 कारिकावतरणिकाया यानुशादेव दाहो दृष्टः, तादृशादेव मन्त्रादिप्रतिबन्धे सति दाहो न जायते, असति बोधनी। किमपि कार्यान्यथानुपपत्त्या कल्पनीयमिति भावः / तत्र दृष्टादृष्टयोरन्यतरवैगुण्येनान्यथोपप. प्रकाशः। तीन्द्रियभावभुतधर्मवन्ति न वा ? आत्मन्यदृष्टं तथा प्रसिद्धम् / यद्वा, कारणतावच्छेदकत्वमतीन्द्रियत्वव्याप्यं न वेति सामान्यतः / बिशिष्य तु, वह्निाहानुकूलाद्विष्ठातीन्द्रियभावभूतधर्मवान वा ? करतलानलसंयोगो वा तादृशधर्मसमवायी न वा? आत्मा तथा प्रसिद्धः / अनुकूलत्वञ्च प्रकाशिका। त्मसंयोगमादायांशतः सिद्धसाधनवारणाय(१) प्राचीनमते तस्य पक्षतावच्छेदकैक्येऽपि दोषत्वात् / अत एव स्थितिस्थापकादिमति तद्वारणाय पूर्व प्रयत्नः कृतः ।अदृष्टपदं चाव्यासज्यवृत्यर्थकमतोऽधि. करणभेदेनाभावभेदाभावादद्विष्ठपदेनैवाभाववारणे भावभूतपदमनर्थकमितिदूषणं परास्तम् / अतीन्द्रियपदमुष्णपर्शादिना सिद्धसाधनवारणाय, अनुपलब्धिगम्याभाववादिनो भट्टस्य मतेऽभावस्य सर्वस्याप्यतीन्द्रियत्वम्। न्यायमतेऽवादृष्टायभावस्यातीन्द्रियत्वमिति तद्वारणाय भावभूतेति / धर्मपदञ्च साक्षात् सम्बन्धलाभाय तेन न परम्परासम्बद्धतादृशधर्मेणाथान्तरम् / यद्वेति / तन्मते शक्तरेव सर्वत्र कारणतावच्छेदकतया तस्याश्चातीन्द्रियत्वाद् विधिकोटिप्रसिद्धिः / न च तन्मतेऽभावस्यातीन्द्रियतया तस्यैवावच्छेदकत्वमस्त्वित्यर्थान्तरं धर्मपदस्य समवेतपरत्वात् न्यायमते तु दण्डत्वादेरपि कारणतावच्छेदकत्वानिषेधकोटिप्रसिद्धिः / वन्हिरिति / दाहानुकूलत्वं ताद्रूप्यसिद्धयेविशेषणम् / तादृशेति। दाहानुकूलातीन्द्रियेत्यर्थः / अतीन्द्रियपदमत्र संयोगत्ववारणाय / नन्वनु. कूलत्वं यदि जनकत्वं तदा वाधः शरजनकत्वात् यदि च जनकतावच्छेदकत्वं तदा दृष्टान्तासिद्धिः, अदृष्टस्यानवच्छेदकत्वादत आह / अनुकूलत्वं चेति / व्याप्तिरत्र कालिकी / न च प्रागभावगर्भस्यास्य नित्यस्थलेऽसम्भवः, तदगर्भस्य च दण्डाभावे सत्यपि.घटसत्वेन व्यभिचारादव्या. मकरन्दः। योगेन सिद्धसाधनवारणार्थमव्यासज्ज्यवृत्तिपरम् / अन्यथा अधिकरणभेदेनाभावभेदानभ्युपगमे तत एव प्रतिबन्धकाभावव्यवच्छेदे भावपदमनर्थकं स्यात् / उष्णस्पर्शादिना अंशतः सिद्धसाधनवारणायातीन्द्रियेति / न च तत एव प्रतिबन्धकाभाववारणे भावपदवैयर्थ्य, भट्टमतेऽनुपलब्धि. गम्यतया तस्यातीन्द्रियत्वात् / दुरदृष्टादिप्रतिबन्धकामावस्याऽतीन्द्रियत्वाच्च / यथाकथ. ञ्चित् सम्बन्धितयाऽदृष्टेनैवार्थान्तरवारणाय धर्मपदम् / न हि तदन्यधर्मस्तदनाश्रितस्वादित्याहुः / यति / न च प्रतिबन्धकाभावमादाय भट्टमतेऽर्थान्तरम् , धर्मपदस्य भावपरत्वादिति वदन्ति। दाहानुकूलत्वमत्र ताद्रूप्यसिद्ध्यर्थमेव / तादृशेति / दाहानुकूलातीन्द्रियेत्यर्थः / अत्र च संयो. गत्वेनार्थान्तरबारणायातीन्द्रियेति / नन्वनुकूलत्वं यदि जनकत्वं, तदा तन्मतेऽपसिद्धान्तः / अथाऽवच्छेदकत्वं, तदास्मन्मतेऽ (१)पक्षतावच्छेदकस्य साध्यतावच्छेदकधर्माकान्ततया साध्यरूपत्वे पक्षतावच्छेदकीभूत. साध्यमादायापि सिद्धसाधनं दोषः प्राचीनमते, तन्मते तव्यावृत्तमेव साध्यतावच्छेदकं कर. णीयम् / नवीनमते पक्षतावच्छेदकीभवत्साध्येन सिद्धसाधनं न दोषः, साध्यतावच्छेदकस्यासिद्धसाधारणस्येष्टतावच्छेदकत्व भवात् तन्मते तत्साधारणमपि साध्यतावच्छेदकं भवत्येव, समानप्रकारकसिद्धेरेव नव्यमते विरोधित्वादिति भावः। अदृष्टवदात्मसंयोगविशिष्टवहेरेव कारणत्वेन स्थिति. स्थापकविशिष्टस्यैव वंशस्य कर्मकारणत्वेन कारणपक्षकानुमाने तेषां पक्षतावच्छेदकत्वं वोध्यम् /