________________ प्रथमस्तवके ] . अपूर्वकारणताव्यवस्थापनम् / न तावदैन्द्रियकस्यातीन्द्रियं रूपम् , व्याघातात / द्वितीये त्वपूर्वसिद्धिः॥॥ सिद्धयतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः / अवश्यं त्वयाऽप्येतदङ्गीकरणीयम् / कथमन्यथा मन्त्रादिभिः प्रतिबन्धः। तथाहि / करतलानलसंयोगाद् बोधनी। तच्चातीन्द्रियममीषां कर्मणां स्वरूपं वा सहकारिभेदो वेति / न तावत् पूर्वः कल्पः, ऐन्द्रियकस्वादतीन्द्रियत्वलक्षणविरुद्धधर्मसंसर्गाद्भेदप्रसङ्गेनैकत्वव्याघातादित्यत आह-न तावत्-इति / द्वितीयस्तु सिद्धसाधनमित्याह / द्वितीये तु-इति। कर्मणां फलोत्पत्यनुगुणोऽतीन्द्रियः सहकारिभेद एवापूर्वम् / तु शब्दोऽभ्युपगमसूचनार्थः। अत्र कश्चिद् विपश्चिदन्यो व्याचष्टे-समस्तस्यैव श्लोकस्यार्थ निगमयति-तस्मादस्त्यतिशयःकश्चिदिति। आत्मसमवेत इति शेषः। ईदृशानीति। भूतानि ईदृशान्येवात्मसमवेतमपूर्वमन्तरेणास्मदाद्यनुपलक्षणीयरूपबिशेषविशिष्टानि जायन्ते। येन भूतावि नियतोपभोगसाधनानीति। सुगममन्यत् // 9 // सम्भोगो निर्विशेषाणामिति विवरीष्यम् तद्वि. परीतं चोदयति-सिध्यतु-इति / सत्यं, यागादिजन्यमपूर्वमस्ति, तच्च भूतधर्म एवास्तु न त्वात्मधर्मः, गुरुत्ववेगादिवदिति / ननु रूपादय एव भूतधर्मा दृश्यन्त कथं तदतिरेकिणोऽपूर्वस्य भूतधर्मत्वमित्यत आह-अवश्यम्-इति / त्वया नैयायिकमानिनापि कश्चिदतीन्द्रियः कार्योदयानुकूलो भूतधर्मःशक्त्यादिपदवेदनीयोऽङ्गीकरणीयः, तथाऽपूर्वमपि भूतधर्मो भविष्यतीति भावः / शक्तेर्वा कथमङ्गीकरणीयतेत्यत आहे-कथमन्यथा-इति / मन्त्रादिभिर्दाहादिकार्यप्रतिबन्धस्तावद् दृश्यते, स चान्यथानुपपद्यमानः शक्तिं कल्पयतीति / तदेव विभजते-तथा हि-इति-। यादृशादग्नेः पूर्व दाहो जातः तादृशादेव दृष्टवैकल्यरहितादेव न जायते दाहः / तेव दृष्टस्य व्यभिचाराददृष्टं प्रकाशः। यसहकारी / यद्वा, रूपं धर्मो जातिरूपोऽजातिरूपो वा ? आये / न तावदिति। व्यक्तियोग्यतयैव जातेोग्यत्वादित्यर्थः // 9 // अन्त्यं शकृते / सिद्धयत्विति। नैतावताऽप्यात्मधर्मापूर्वसिद्धिः। भूतवृत्त्यतीन्द्रिय. धर्मादेवोपपत्तेरिति भावः। गुरुत्वादिवदित्यादिपदेन मीमांसकाभिमतशक्तिगृह्यते / तत्र शक्तावपत्तिं प्रमाणयति / तथाहीति / शक्तौ विप्रतिपत्तिः / कारणानि स्वजन्यानुकूलाद्विष्ठा प्रकाशिका। . अन्त्यमिति। द्वितीयव्याख्यानुसारेणेदम्। प्रथमव्याख्यायान्तु सहकारिभेदोऽपूर्वमेवास्तु भू. तधर्म एब कश्चनातीन्द्रियोऽस्त्वित्याशङ्केति ध्येयम् / कारणानीति / पण्डापूर्वे भागवाधा इति कारणत्वपर्यन्तं पक्षतावच्छेदक, गुरुत्वस्थितिस्थापकादिमत्यंशतः सिद्धसाधनमिति स्वजन्यानुकूलेति। तदर्थश्च स्वनिमित्तकारणानुकूलत्वं स्थितिस्थापकश्च स्वाश्रयसमवायिकारणककर्मानकलमिति तस्य व्यदासः। केचित्त स्वजन्यानुकूलत्वं ताप्यसिद्धये विशेषणं यथाश्रतार्थकमेव. स्थितिस्थापकाश्रयभिमस्यैव च पक्षत्वमतो न सिद्धसाधनमंशत इत्याहुः। अद्विष्ठपदं च अदृष्टवदा मकरन्दः। कारणानीति / वस्तुमात्रपक्षत्वे भागबाधादिरजनके पण्डापूर्वादौ तन्मते स्यादिति कार. णानीत्युक्तम् / नचादृष्टस्थितिस्थापकगुरुत्वादिकमादायापि पृथिव्यादिष्वंशतः सिद्धसाधनम् / त. शिनकारणस्यैव पक्षत्वात् / न च पक्षतावच्छेदकैक्ये तद्दोष एव नेति वाच्यम् / प्राचीनमतेनेवो. कत्वात् , अन्यथा अद्विष्ठपदप्रक्षेपानुपपत्तेः। अत एव वक्ष्यमाणहेतुपक्षतावच्छेदकयो भेदः / स्वजन्यानुकूलत्वं ताद्रूप्यसिद्धये / यद्वा, स्थितिस्थापकवतोऽपि पक्षान्तर्भावात् तमादायांशतः सिद्धसाधनवारणार्थ तत् / तदर्थश्च स्वनिमित्तकारणकानुकूलत्वमित्याहुः / अद्विष्ठपदमदृष्टवदात्मसं.