________________ 102 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 9 कारिकाव्याख्यायो क्षणिकत्वात्, अपेक्षितस्य कालान्तरभावित्वात् / चिरध्वस्तं फलायालं न कर्मातिशयं विना। सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि // 9 // तस्मादस्त्यतिशयः कश्चित् / ईदृशान्येवैतानि स्वहेतुबलायातानि, येन नियत भोगसाधनानीति चेत् / तदिदममीषामतीन्द्रियं रूपं सहकारिभेदेो वा ? / बोधवी। एतदेव विभजते-चिरध्वस्तम् इति / फलाय कालान्तरभाविन इति शेपः / अपूर्वसिद्धावपि तस्य प्रत्यात्मसमवायः न तु प्रतिभूतमिति कथं सिध्येदित्यत्र प्रत्यात्मनियमाद् भुक्तरिति हेतुं व्याचष्टे-सम्भोग-इति'। अपूर्वसंस्कृतेष्वपि शरीरेन्द्रियादिभूतेषु नित्यत्वविभुत्वाभ्यां सकलशरीरप्राप्तानामात्मनामपूर्वेणाविशेषितत्वे संविभज्य भोगः प्रतिनियतभोगो न सिध्येद् , दृश्यते चासो, तस्मादात्मसमवाय्यपूर्वमिति निगदव्याख्यातत्वेन पूर्वार्धार्थं निगमयति -तस्मात्इति / तत्र शङ्कते-ईद्वशानि-इति / क्षणभङ्गुराण्यपि कर्माणि स्वकारणवशादीदृशान्येव सिद्धानि येनापूर्वजननमन्तरेण कालान्तरभावित्वेन नियतानामेव फलानां साधनानि स्युः / तेषां कालान्तरफलानुगुणं किञ्चिद् रूपमस्तीत्यर्थः। ईदृशशब्दविवक्षितं रूपं तद्विकल्पयति-तदिद. म्-इति / न तावद् दृश्यमान रूपं फलानुगुणं क्षणिकत्वात् ; अतस्तदतीन्द्रियमभ्युपगन्तव्यम् / प्रकाशः। श्रयासिद्धमिति भावः / क्षणिकत्वादिति / आशुतरविनाशित्वादित्यर्थः / चिरध्वस्तमिति। फलस्य स्वर्गादेः कालान्तरभावितया न तत्राशुविनाशिनः साक्षात्साधनत्वमिति प्रतीतसाधनस्वा. नुपपत्त्या तजन्यापूर्वकल्पनमित्यर्थः / अतिशयं विना चिरध्वस्तं कर्म न फलायालं समर्थमिति योजना। साक्षात्साधनत्वाभावेऽपि साधनत्वस्य फलसमयपर्यन्तस्थायिव्यापारव्याप्तत्वादिति भावः / ननु चादृष्टसिद्धावपि भूतधम एव तदस्त्वित्यत आह / सम्भोग इति / सम्भोगः= समीचीनो नियतो भोगो, निविशेषाणाम् अदृष्टरूपविशेषरहितानामात्मना न स्यात् , संस्कृ. तानां भूतानां साधारणत्वादित्यर्थः / अत्र स्वहेतुबलोत्पन्नस्वरूपविशेषवन्ति शरीरादीनि नियता. ऽऽत्मभोगसाधनानि सन्त्विति शङ्कते। ईदृशानीति / एतद्विकल्प्य व्याघाताभिमतसिद्धिभ्यां परिहरति / तदिदमिति / रूपं स्वरूपम् , अतीन्द्रियस्वभावत्वमित्यर्थः / सहकारिभेदोऽतीन्द्रि. प्रकाशिका . एकक्षणावस्थायित्वमप्रसिद्धमित्यत आह / आशुतरेति / साक्षात्साधनत्वाभाव इति / अव्यवहितपूर्ववर्तित्वाभाव इत्यर्थः, चिरनष्टे दण्डे चक्रभ्रमिद्वारा घटजन के व्याप्तिग्रहः / न च विपक्षवाधकाभावः, स्वस्वव्यापारान्यतराव्यवहितपूर्वसत्ताया एव कारणतात्वात् , अन्यथा घटत्वा. वच्छिन्नं प्रति रासभस्य कदाचित् पूर्वसत्तानियमेन कारणत्वापातात् / केचित्तु कार्यकादाचित् कत्वनियामकत्वेन कारणकल्पना तच्चाव्यवहितपूर्ववर्त्तिनैव नियम्यते, अन्यथा पूर्वमपि स्वोत्पत्तेः कार्य्यस्य कालसम्बन्धापत्तिरित्याहुः। तदयुक्तम् / तथासति योग्यस्य व्यापारद्वाराप्यकारणत्वापत्तेः। तस्मात् कादाचित्कत्वं कारणमात्रनियम्यं स्वोत्पत्तिपूर्वमनुत्पत्तौ त्वव्यवहितकारणव्यक्तथभाव एव प्रयोजको नैतावता कारणमात्रेऽतीते व्यापारकल्पनमिति // 9 // मकरन्दः / एकक्षणमात्रस्थायित्वमसिद्धमित्यत आह / आशुतरेति / फलसमयेति / यद्यपि चिरध्वस्तकारणत्ववादिनः क्वचिदपि व्यापाराप्रसिद्धेाप्तिरन्यतरासिद्धा, तथापि चिरातीतदुण्डादिना घटायजननात् परोऽपि तथाऽङ्गीकारयितव्य इति स्वमतावष्टम्भेनोक्तमिदम् // 1 // टिप्पणी। यापूर्षस्य स्वतः प्रयोजनस्वाभावे नित्यापूर्वस्यापि तत्त्वस्यायुक्तत्वादित्यर्थः // 8-9 //