________________ प्रथमस्तवके] अपूर्वकारणताव्यवस्थापनम् / 101 श्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यादु, न त्वनुष्ठानागोचरेण कर्मणा / अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् // 8 // अस्तु दानाध्ययनादिरेव विचित्रों हेतुर्जगद्वैचित्र्यस्येति चेन्न / बोधनी। अन्यथा इति / अन्यथा-यदि वैदिकमनुष्ठानं प्रतारणायत्तं भवेदित्यर्थः / यद्वा, यदि वञ्चकः स्वयमप्यनुतिष्ठेत् ततो बौद्धागमानां प्रतारणपरत्वे प्रमाणाभावादाप्तोक्तत्वसिद्धौ प्रमाणं विरोधासंभवात् तन्निबन्धना पाखण्डत्वप्रसिद्धिर्ने स्यादिति / ___ अनादावित्यादेरपरा व्याख्या-कस्यचिदनुष्ठाने प्रागसिद्ध धनुष्ठानमात्रस्यैवाज्ञानाद्विप्रलिप् सोपदेशमात्रेण प्रतारणानुपपत्तेरवश्यमनुष्ठानायैव प्रतारणं स्यात् / प्रागेव तु ज्योतिष्ठोमानुष्ठानसिद्धौ प्रकारान्तरोपदेशमात्रेण स्वयमनुष्ठायैव प्रतारणं संभवति / नन्वनुष्ठानायैवेति विपरीतं कि. मिति न स्यादित्यत आह -अन्यथा इति / चैत्यवन्दनादीनां प्रमाणमूलत्वे प्रमाणविरोधासंभवात् तदागमानां पाखण्डत्वप्रसिद्धिर्न स्यादित्यनुष्ठानागोचरेण कर्मणेति केचित् पठन्ति / तत्रायमर्थः-यदि वैदिकानुष्ठानात् पूर्वसिद्धं किञ्चिदनुष्ठानं स्यात् ततः पश्चात्तनं वैदिकमनुष्ठानं तत्र प्रतारणपरं स्यात् / न तु पूर्वसिद्धानुष्ठानागोचरेण कर्मणा प्रतारणं संभवति / सर्वत्र पूर्व सिद्धानुछानविषयत्वात् प्रतारणस्येति / अयं च प्रथमव्याख्यायां संगच्छेत // 8 // प्रत्यात्मनियमाद् भुक्तरित्यत्रापूर्वसद्भावहेतुः कालान्तरे फलोपभुक्तिरपूर्वस्यात्मसमवाये हेतुश्च भुक्तेः प्रत्यात्मनियमः संगृहीतः। तत्रापूर्वसिद्धिौ तस्यात्मसमवायः शक्यसाधन इति तत्सिद्धिहेतुं तावद् भुक्तिमवतारयितुमाशङ्कते-अस्तु इति / अत्रैवकारोऽपूर्वव्यवच्छेदार्थः, जगवैचित्र्यस्यामुष्मिकफलस्येत्यर्थः / परिहरति-न-इति / प्रकाशः। तिरिक्तोऽनादिरविगीतश्च व्यवहारः प्रामाणिकः स्यात् तदायमाधुनिको बैदिकव्यवहारः परप्रतारणपर इति व्यवतिष्ठेत यथाऽनादिसिद्धः पिपासोपशमनं तोयपानमिति व्यवहारः। अन्नभक्षणं पिपासोपशमनमित्याधुनिक उपदेशः परप्रतारणपर इति निश्चीयते। न त्वेवमित्याह / न विति। तस्मादयमेव व्यवहारः प्रामाणिको, न परप्रतारणपर इत्यभ्युपेयमिति भावः / अनभ्युपगमे त्वप्रामाणिकत्वाविशेषात् पाखण्डापाखण्डमतभेदो न स्यात् / तथाच प्रमाणेन खण्डिताः पाखण्डा इत्यपि न स्यादित्याह / अन्यथेति // 8 // अस्त्विति / न तु तजन्यमदृष्टमित्येवकारार्थः। तथाचादृष्टाधिष्ठातृत्वेन ईश्वरानुमानमा प्रकाशिका। त्यपि द्रष्टव्यम् / तेनाग्रे प्रकारान्तरकथने विगीतत्त्वोपादानं घटते / आधुनिक इति। सादिरुपदेशो विगीतश्चेत्यपि द्रष्टव्यम्। अन्नभक्षणं पिवासोपशमनसाधनमित्युपदेशे च विगीतत्वं शिष्टव्यवहाराविषयत्वमप्रामाणिकत्वं वा बोध्यमिति / इत्यपीति / असाधारण्येनेति शेषः। तथाचोभयोः पाखण्डत्वमपाखडत्वं वा व्यवहियेतेति भावः // 8 // मकरन्दः / मिति / विफला विश्ववृत्तिरित्यादिरित्यर्थः / आधुनिक इति / सादिरुपदेश इत्यर्थः / अविगीतश्चेत्यपि द्रष्टव्यम् / यद्यपि वेदानिषिद्धत्वमविगीतत्वं न तत्र, तथापि शिष्टव्यवहाराविषयस्वमप्रामाणिकत्वं वा तदित्येके / परदुःखहेतुतया सामान्यतस्तत्रापि निषेध इत्यन्ये / इत्यपीति / असाधारण्येनेति शेषः / तथाचोभयस्यापि पाखण्डत्वमन्यतरस्यापि वा नेति भावः // 8 //