________________ - 100 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 8 कारिकाव्याख्यायो चेत् / किमसौ सर्वलोकोत्तर एव, यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरबञ्चनकुतूहली यावज्जो. घमात्मानमवसादयति, कथञ्चैनमेकं प्रेक्षाकारिणोऽप्यनुविध्युः / केन वा चिह्न. नायमीद्शस्त्वया लोकोत्तरप्रशेन प्रतारक इति निर्णीतः ? न ह्येतावतो दुःखराशेः प्रतारणसुखं गरीयः। (1) यतः पाखण्डाभिमतेवप्येवं दृश्यते इति चेद् / न / हेतुदर्शनादर्शनाभ्यां विशेषात् / अनादौ चैवम्भूतेऽनुष्ठाने प्रतीयमाने प्रकारान्तरमा बोधनी। विप्रलम्भक इत्युत्प्रेक्षितुमपि क्षममिति / अस्तु वा तथाविधो धूर्तः कश्चित् , नत्वेकस्यास्य प्रेक्षावद्भिबहुभिरनुविधानं संभवतीत्याह-कथं च इति / यदि वा सर्वप्रेक्षावदनुविहिताचारस्तथाविधः पुरुषः, किमस्य विप्रलिप्सायां भवतः प्रमाणमित्याह-केन वा-इति / न केवलं प्रमाणाभावः प्रमाणबाधितैवतस्य विप्रलिप्सेत्याह-न हि इति / तस्माद् वैदिकेषु कर्मसूपदेशानुष्ठानाभ्यां परान् प्रवर्तयन् सकलप्रेक्षावदनुविहिताचारो लोकोत्तरः कश्चिदिति निश्चेतव्यम् / न च तस्मिन्ननाश्वासो युक्त इति भावः / विश्ववृत्तेभ्रममूलत्वमप्यत एव निरस्तं वेदितव्यम् / चोदयति-अथइति / बाह्यामिमतेषु चैत्यवन्दनादिषु विश्वप्रवृत्तिीपान्तरापेक्षं दृश्यते, ततः साप्युक्तप्रकारेणा न्यथासिद्धा तेषामामुष्मिकफलत्वं कल्पयेदिति भावः। न-इति / ज्योतिष्टोमचैत्यवन्दनयोर्न तुल्य. त्वं, दृष्टहेतुसंभवाच्चैत्यवन्दनादिपरिप्रहस्य तदभावाच्चेतरपरिग्रहस्य / अथं च विशेषः प्रपञ्चयिध्यते द्वितीये परिच्छेदे / हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुमानादितरत्र विश्ववृत्तिरभिमताऽसावन्यत्र नास्तीति भावः। किञ्च, यत्र यत्र प्रतारणं तत्र सर्वत्रापि पूर्वसिद्ध कस्मिंश्चिदनुष्ठाने प्रतीयमाने ततः प्रकारान्तरमाश्रित्य प्रतारयितुमात्मनोऽर्थप्रदानादिसुकरोपायोपदेशमात्रेण प्रतारणं भवति, न तु स्वयमनुष्ठानेन / यथा रोगापगमहेतौ भेषजभेदानुष्ठाने पूर्वसिद्धे प्रतारणं 'मम हस्ते किञ्चित् प्रदीयतामिदानीमेव सर्व शमयिष्यामि' इति / इह दुःखात्मके कर्मणि स्वयमनुष्ठायैव परमनुष्ठापयति, तस्मान्न प्रतारणेयमित्याह-अनादौ-इति / एवं सत्याप्तप्रणीतत्वेन वेदानामेव प्रामाण्यात् तद्विरोधिनी बौद्धाद्यागमानां प्रमाणविरोधनिबन्धना पाखण्डत्वप्रसिद्धिः सिध्येत् , नत्वन्यथेत्याह प्रकाशः। अन्त्ये, कथं चैनमिति / प्रत्युतानादिप्रवृत्तितया दृष्टफलनिरपेक्षतया चादृष्टफलत्वमेवानुमेयमिति भावः / यत इति / एवं पाखण्डप्रवृत्तिरपि दृष्टफलनिरपेक्षा परलोकसाधनं स्यात् / अन्यथाऽयं परिशेषस्तत्रैव व्यभिचरेदित्यर्थः / हेत्विति / हेतुदर्शनेन कर्मलाघवादिना तादृशी तत्प्रवृत्तिरन्यथासिद्धा। अत्र तु ब्रह्मवर्यादिदुःखमयकर्मप्रधानतया न तत्सम्भव इत्यादेर्द्वितीयस्तवके व. क्ष्यमाणत्वादित्यर्थः / नन्विष्टापूर्तादीनां हेतुदर्शनशून्यत्वेऽपीदम्प्रथम एव प्रतारकस्तद्बोधकागमस्य प्रामाण्यं भ्रमेण प्राहयित्वा प्रेक्षावतः प्रवर्तयेदित्यत आह / अनादाविति / एवम्भूते. ऽनादौ अविगीते परलोकसाधने / प्रकारान्तरं = सादित्वं विगीतत्वञ्च / यदि वैदिकव्यवहारा प्रकाशिका। कामनावश्यंभावादिति भावः। प्रत्युतेति / अनादिप्रवृत्तितया सफलत्वानुमानमेव दृष्टफलाभावज्ञानसहकृतमदृष्टफलकत्वं विषयीकरोतीत्यर्थो यथाश्रुते साध्याप्रसिद्धः। मयं परिशेष इति / विफलेत्यादिकारिकोक्त इत्यर्थः / एवं भूत इति मूलस्य परलोकसाधन इति व्याख्यानमवगीते चे मकरन्दः। प्रत्युतेति / क्वचिददृष्टफलत्वसिद्धावेव तत् / अन्यथा साध्याप्रसिद्धेरिति ध्येयम् / अयगरीय इति / तथात्वे त्वयाऽपि तस्करणप्रसङ्गादिति भावः। (1) अथेतिपाठान्तरम् /