________________ 88 प्रथमस्तवके ] .. भपूर्वकारणताव्यवस्थापनम् / तम् / ततो नेदमनवसर एव वक्तुमुचितम् / वृद्धैविप्रलब्धत्वादु बालानामितिचेन्न / वृद्धानामपि प्रवृत्तेः। न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते / तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् / न तहि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् / इदं प्रथम एव कश्चिदनुष्ठायापि धूतः पराननुष्ठापयतीति बोधनी। राद्धान्तः, नास्मद्गुरोः, तस्य निष्फलोपदेशासंभवात् / तत्राप्युपात्तदुरितक्षयादिफलमस्तीति राद्धान्तः / यद्वा, गुरु श्लाघ्यं तन्मतमित्युपालम्भगर्भः, न तु गुरोहितोपदेशिनः कस्यचिन्मतं-त स्मादप्रस्तुतमिदानी न वक्तव्यमिति / तस्माद् यागादिकर्तृपूजादेदृष्टहेत्वभावादवश्यं धार्मिक इति बुद्धथा तदाचार इत्यभ्युपगन्तव्यम् / तेन यागादेस्तदनुष्ठातृपूजादेचामुष्मिकं फलं सिद्धमिति रहस्यम् / तुरीयपादमवतारयितुं शङ्कामाह-वृद्धः-इति / बालानां प्रवृत्तिरिति शेषः। नइति / विप्रलम्भका यत्र परं प्रवत्तयन्ति न तत्र स्वयमपि प्रवर्तन्त इति / स्वैरेव विप्रलब्घाः प्रवर्तन्त इति मन्दाशको निराकरोति-न च इति। आत्मवञ्चनमशक्यमप्रयोजनं चेति भावः। तर्हि सर्वेऽपि पूवैविप्रलब्धाः प्रवर्तन्त इत्याह-तेऽपि-इति। सर्वेषामेव भावाभ्युपगमेनेयं विप्र. लम्भकमूला प्रवृत्तिः। अन्यथा संविदानोऽन्यथोपदिश्य प्रवर्तको विप्रलम्भकः, न चात्र तादृशः कश्चित् ; अतः प्रमाणमूलत्वमेवोपपन्नमिति भावः / पुनः शङ्कते-इदं प्रथमः-इति / विप्रलि. प्सातिशयेन हि स्वयमप्यनुष्ठानोपपत्तिरिति भावः। तदतिशयप्रदर्शनार्थमुक्तं-धूर्त:-इति / किमसाविति धूर्तविप्रलम्मकास्तावदुपदेशमात्रेण विप्रलभन्ते / क्ववित्तु केचिदल्पायाससाध्येषु कर्मसु स्वयमनुष्ठायापीति संभाव्येत / न तु सर्वस्वदक्षिणादिसाध्ये वैदिककर्मकलापानुष्ठाने कश्चिद् . प्रकाशः। काविष्टसाधनताज्ञानजननद्वारा कार्यताज्ञान एवोपक्षोणाविति फलज्ञानं न प्रवृत्तिहेतुः / न चान्यत्राऽपि निष्फले प्रवृत्तिप्रसङ्गः / वेदस्येष्टसाधनत्वस्य वा लिङ्गस्य कार्यताज्ञानहेतोरभावादिति जरन्मीमांसकमतं दृष्टान्त इत्यर्थः / अत्र सोपहासमाह / गुरुमतमिति / गुरोः प्रभाकरगुरोः, गुरु महद्वा मतमेतद्, न त्वस्मद्गुरोर्मतमित्यर्थः / निष्फले प्रेक्षावता प्रवृत्तेरनुत्पादनियमात् प्रयोजनज्ञानस्य प्रवृत्तिहेतुत्वेन निष्फले कार्यत्वस्यायोग्यतया वेदेन बोधयितुमशक्यत्वात् प्रवर्तकस्य कार्यत्वज्ञानस्यासम्भवात् / अत एव नेष्टज्ञानं कार्यताज्ञान एवोपक्षीणम् / अनन्यथासिद्धत्वादिति भावः / वृद्धरिति / तथाच निष्फल एवान्यैः प्रतारणादाकुमारं प्रवृत्तिरिति न तत्र प्रयोजनगवेषणमिति भावः। विप्रलिप्सुरन्यथाज्ञातमर्थमन्यथा बोधयति, भ्रान्तो वा? | आये वृद्धानामिति / प्रकाशिका। कार्यस्य साधनत्वेनैव सिद्धरपूर्वस्येति शेषः / तथा च नापूर्व स्वतःप्रयोजनम् , काम्यापूर्ववदिति भावः। उपहासबीजमाह। निष्फल इति / तथाचेति / प्रयोजनमिति भावः / अनन्यथासि. द्धत्वादिति / यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञाने तदुपक्षीणम् / तथापि प्रवृत्तिप्रयोजकतायामपि निष्फले प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् / नचैवं नित्यताभङ्गः, त्रिकालकाम्यस्तवपाठवत् मकरन्दः। तथाच तद्वन्नित्यापूर्वस्यापि न स्वतः प्रयोजनत्वमिति भावः / . उपहासबीजमाह निष्फल इति / अनन्यथासिद्धत्वादिति / यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञानेऽपि तदन्यथासिद्धमित्युपपादितं प्रत्यक्षप्रकाशेऽन्यथाख्यात्यवसरे / त्रिसूत्रीस्वरसोऽप्येवमेव / तथापि तस्य प्रवृत्तिप्रयोजकत्वान्निष्फलेऽपि प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् / न चैवं नित्यताभनप्रसङ्गः / त्रिकालकाम्यस्तवपाठवत् कामनाऽवश्यम्भावादिति भावः। पद्धतरिति / विप्रलब्धा इति शेषः /