________________ - व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 8 कारिकाव्याख्यायो यितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् / न / नीतिनर्मसचिवेग्वेव तदर्थ दानादिव्यवस्थापनात् / विद्यतपस्विनो धूर्तबका एवेति चेन्न / तेषां दृष्टसम्पदं प्रत्यनुपयोगात् / सुखार्थ तथा करोतीति चेन्न / नास्तिकैरपि तथाकरणप्रसङ्गात् , सम्भोगवत् / लोकव्यवहारसिद्धत्वादफलमपि क्रियते, घेव्यवहारसिद्धत्वात् संध्योपासनवदिति चेदु, गुरुमतमेतन्न तु गुरोर्म बोधनी। यति ददाति वेति / अनुरागो वा किमर्थ इत्यत्रोक्तं-जनानुराग इति। परिहरति-न-इति। ख्यात्यनुरागार्थयोर्दानपूजयोर्यथाक्रमं नर्मनीतिसचिवयोर्व्यवस्थितत्वादत्र च तदमिसन्धिविरहान्न ताद र्थ्यमिति / पुनः शङ्कते-विद्य-इति / वैदिका यागादिकर्तारो विप्रलम्भ का दृष्टार्थमेव भावयन्तो. ऽदृष्टार्थमिवाचरन्ति, तेऽपि तेन नर्मसचिवप्राया इत्यर्थः / परिहरति न-इति / नीतिनर्मस चिवा हि दृष्टोपयोगिनः, नैवं त्रैविद्याः, अतस्तेषु पूजादि न दृष्टार्थमिति / ननु तेषां पूजादिकमनु. तिष्ठतः किञ्चिद् दृष्टमेव सुखं जायते, ततस्तदर्थमेव पूजानुष्ठानमित्याह सुखार्थम्-इति / नइति। न हि तात्त्विकं किश्चिद् दानादिजन्यं सुखमस्ति, पारलौकिकसुखाध्यवसायादेव हि तदनु. छायिनस्तदा प्रीतिरिति भावः। शङ्कते-लोक-इति / अनादिना लौकिकाचारेण कर्तव्यतया सिद्ध. स्वादफलमपि दानादि क्रियते, वैदिकविधानेन सिद्धसन्ध्योपासनवत् / तद्विधायकवाक्येषु फला. श्रवणा जीवनादिकर्माधिकारलाभाच्च विधित एव अनुष्ठानसिद्धौ फलकल्पनायां प्रमाणाभावादफ. लमेव सन्ध्योपासनादिकमिति भावः / गुरुमतमेतत्-इति / निष्फलं कर्मेति प्राभाकरगुरोरयं प्रकाशः। नीतिनौति / राजादिभिः प्रयोजनमुद्दिश्यैव दानाद्वनस्थतपस्विभ्यः प्रयोजनाननुसन्धानेन दा. नाभावादित्यर्थः। विद्यति / त्रिवेदीविदोऽपि तपस्विनः परप्रतारणार्थ तपसि प्रवर्तन्त इत्यर्थः। तेषामिति / दृष्टप्रयोजनमुद्दिश्यैव परप्रतारणात् तेषाश्च दृष्टे निस्पृहत्वात् तदसम्भवः / प्रच्छ. नमपि परोपनीतधन निःस्पृहैस्तपःकरणादित्यर्थः / वेदेति। सन्ध्योपासनमकरणे निन्दोपदेशात् प्रायश्चित्तोपदेशाच नित्यम् , नित्ये च यदि फलाऽर्थिनः प्रवृत्तिः स्यात् तदा यागवन्नित्यताभङ्गप्रसङ्ग इत्यफलैव तत्र प्रवृत्तिः। कार्यताज्ञानं हि तत्र प्रवर्तकम् , तच्च लोके पाकादाविष्टसाधनताज्ञानात् कार्यताऽनुमित्या निर्वहति / वैदिके च नित्ये कार्यताज्ञानं वेदाधीन मिति किमिष्टसाधनताज्ञानेन / न च नित्यापूर्वमेव फलं, तथापि नित्यताभङ्गात् / काम्यस्थले धर्मिप्राहकमानात् काम्यसाधनत्वेनैव सिद्धौणप्रयोजनतया स्वतःप्रयोजनत्वाभावाच लोके प्रवृत्ताविष्टज्ञानान्वयव्यतिरे प्रकाशिका। भावः / चिरेति / तथा च तद्धेतुत्वमप्यदृष्टद्वारैवेत्यर्थः / दानामावादिति-दानाभावापत्तेरित्यर्थः / दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः / सन्ध्योपासनस्य निष्फलत्वे मानमाह / सन्ध्योपासनमिति / निष्फलत्वेऽपि प्रवृत्तिमुपपादयति / कार्यताशानं हीति / मकरन्दः। चिरेति / तथाच तद्धतुत्वमप्यदृष्टद्वारैब स्यादिति भावः / दानाभावादिति / दानाभावापत्तेरित्यर्थः। दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः। निष्फलत्वेऽपि तत्र प्रवृत्तिमुपपादयति / सन्ध्योपासनमिति / काम्यस्थल इति / अपूर्वस्येति शेषः / टिप्पणी। नच नित्यापूर्वमेव फलमिति। एवकारेण स्वतः प्रयोजनत्वलाभः / अपूर्वसम्पादनीयस्य प्रयोजनस्याश्रुतत्वात् / स्वतः प्रयोजनत्वोभावाच्चेति / उभयसम्प्रतिपन्नस्य काम्यस्थली