________________ प्रथमस्तवके ]. अपूर्वकारणताव्यवस्थापनम् / 17 थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् / लाभपूजाख्यात्यर्थमिति चेद् ? लाभादय एव किन्निबन्धना? न हीयं प्रवृत्तिः स्वरूपत एव तद्धतुः, यतो वाऽनेन लब्धव्यं, बो धैनं पूजयिष्यति / स किमर्थम् ? ख्यात्यर्थमनुरागार्थञ्च, जनो दातरि मान बोधनी। ख्यास्यन्ननन्यथासिद्धिं तावत् प्रतिजानाति-यदि हि- इति / भूतानां परिणतिः कार्य, तत्पर. म्परा, उप्तं बीजमङ्कुरं जनयति, तत् सस्यं, तद्ब्रीह्यादिकमिति पूर्व पूर्व दृष्टमेवोत्तरोत्तर प्रति का. रणमिति याच्येतेति / यद्वा भूतानां सहकारिणां परिणतिः साकल्यम् / इष्ट-यागादि श्रौतं कर्म। पूत्तं = खातादि स्मातमिति / अत्र हेतुत्वेन संग्रहं व्याचष्टे-न हि -इति / शङ्कतेलाभ इति / दुःखात्मकयोरपि श्रौतस्मातयोर्लाभादिदृष्टसिद्ध्यर्थमयं प्रवर्तत इति दूषयति-ला. भादय-इति / तेऽप्य दृष्टनिबन्धना इत्यर्थः / कुत इत्यत आह-न हि-इति / न हीयं यागा. दौ प्रवृत्तिः स्वरूपेणैव लाभादिहेतुः, तेषां प्रवृत्त्यानन्तर्यनियमाभावात; तेनादृष्टद्वारेणैव हेतुत्व मिति भावः / यतो वा-इति / स किमर्थ लम्भयति पूजयति वेति शेषः। तत्र प्रवृत्तिरपि नाह. टमन्तरेणोपपद्यत इति भावः। शकते-ख्यात्यर्थम् इति। नतु पारलौकिकं किञ्चिल्लिप्समानः पूज. प्रकाशः। ___ इष्टं यागादि / वृत्तं तडागादि / न हीति / बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानजन्यत्वात् प्रवृत्तेरिति भावः / प्रागेवेति निपातसमुदायोऽतिशयार्थः / लाभेति / तथाच दृष्टेष्टसाधन. ताज्ञानादेव तत्र प्रवृत्तिन पारलौकिकेष्टसाधनताज्ञानादिति भावः। न हीति / चिरातीतायामेव यागादिक्रियायो लाभायुत्पादादिति भावः / यद्वा, स्वरूपतो लामादिहेतुत्वे, नास्तिकैरपि तत्करणप्रसङ्गादिति भावः / यतो वेति / लाभाधुद्दिश्य यागादौ प्रवर्त्तमानाय परेण धनदानमदृष्टार्थमेवेति तत्सिद्धिरित्यर्थः / ख्यात्यर्थमिति / दृष्टार्थमेव तद्दानमिति नादृष्टमुद्देश्यमिति भावः / टिप्पणी। [10 87.1 ] यद्वा विद्यमानाश्रयेत्यादि / स्वाश्रयाधिकरणक्षणोत्पन्नद्रव्यनाश इत्यर्थः / [पृ० 87-2] सासमवायिकारणक इति / असमवायिकारणसहितस्य द्रव्यस्य नाशे / अर्थादसमवाटिकारणनाशोत्पत्तिक्षणोत्पन्नद्रव्य नाश इत्यर्थः / [पृ. 87-3] उभयजन्ये द्रव्यनाश इति / पूर्वोत्पन्न विभागादाश्रयनाशक्षण एव यत्रासमवायिनाशस्तत्रोभयजन्यत्वं प्रसिद्धयति / (पृ. 88-12] व्यक्तिविशेषम्प्रतीति / अव्यवहितविद्यमानोभयनाशकद्रव्यनाश उभयनाशस्य दण्डचकादिवत्कारणत्वम्बोध्यम् / यथाश्रुते कार्यकारणभावानन्त्यापत्तेः // 6 // [पृ० 91-14] एकजातीयत्वात् इति। महत्तत्वादीनां पुरुषभेदेन भेदेप्येकप्रकृतिविकार.. त्वादेकजातीयत्वमिति पर्य्यवसितार्थः। [पृ०९१-१५]द्रष्टुं शक्यत्वादिति। ज्ञातुं शक्यत्वा. दित्यर्थः / तेन दृशधातोश्चाक्षुषप्रत्यक्षार्थकतया तदभावेऽपि न क्षतिः / अल्पविषयतयाऽनुमानाव. तारसम्भवात् / यद्यप्युपादानगोचरप्रत्यक्षस्यैव कार्यजनकतया ब्रह्म नास्मदादिना द्रष्टुं शक्यम् / तथापि तन्मात्राभिज्ञसिद्धावपि न सकलदर्शीश्वरसिद्धिः / यद्वा द्रष्टुं शक्यत्वादित्यनेनादृष्टव्यवच्छेदः। तथाच नादृष्टाधिष्टातृतयेश्वरसिद्धिरित्यत्र तात्पर्य्यम् / स्वरूपभेदसहकारिभेदावित्यर्थं इति पूर्वपक्षिणोऽभिमानमिति शेषः। अग्रे दृष्टान्तेऽपीत्यादिना तत्खण्डनमेव करिष्यति। [पृ० 92-21] दृष्टान्तेऽप्यविचित्रकारणेति / कारणपदं सामग्रीपरम् , तस्यैव वैचित्र्य नियामकत्वं "तदेवमित्यादि प्रसाधितम्" इत्यन्तेनोपसंहरिष्यति / तथा च दृष्टान्तस्थलेऽपि यस्या वैचित्र्यप्र. योजकत्वं सा विचित्रैवेति भावः। [पृ० 92-22] सम्बन्धी न क्रम इत्यादि एकस्य क्रमः, एवं समस्य वैचित्र्यम् परैरपि नाभ्युपगतमित्यतः पूरयति सम्बन्धी कार्याणामिति // 7 // 13 न्या० कु.