________________ 16 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 8 कारिकाव्याख्या कार्यस्य कारणेनापि विचित्रेण भवितव्यम / न च तत् स्वभावतस्तथा / ततः सहकारिौचित्र्यानुप्रवेशः / न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति // 7 // अस्तु दृष्टमेव सहकारिचकं किमपूर्वकल्पनयेति चेन्न / विश्ववृत्तितः। विफला विश्ववृत्तिों न दाखैकफलाऽपि वा। दृष्टलाभफला नापि विप्रलम्भोऽपि नेहशः॥८॥ यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोका: बोधनी। बौद्धो मन्यते तं प्रत्याह-न च-इति। न च तत्कारणम् / स्वभावतः स्वरूपतः / तथा=वि. चित्रं, तत्त्वेन प्रत्यभिज्ञायमानत्वादिति / यद्वा, प्रदीपवत् स्वभावत एव विचित्रमस्तु कारणं किं सहकारिवैचित्र्येणेत्युक्तमिति चेत् तत्राह-न च-इति / प्रदीपे तिमिरापहारादिकार्यभेदस्य तैलवादिसहकारिभेदनिबन्धनत्वादित्यर्थः / क्षणभङ्गवादेऽपि सहकारिवैचित्र्यमादरणीयमित्याहन च क्षणोऽपि-इति / न चान्त्यक्षणोऽपि सहकार्यनपेक्षस्तथा विचित्र कार्यसन्ततिहेतुर्भवति / सोऽपि हि यदृच्छया सिद्धसहकारिमध्यमध्यासीन एव विचित्रकार्ये हेतुः. अन्यथा कुसूलनिहित वीजः कृषीवलः कृतार्थः स्यादिति // 7 // ____ अथ विश्ववृत्तित इत्येतदवतारयितुं शङ्कते-अस्तु-इति / ततोवेश्वरसिद्धिरिति अवतारयति-न, विश्ववृत्तितः इति / अस्यानन्यथासिद्धि दर्शयन् विवक्षितसाध्यकत्वमुपपादयतिविफला-इति / यागादौ तावद्विश्वस्य जगतः प्रवृत्तिदृश्यते, नेयं विफला, नापि दुःखैकफला, विश्वपत्तित्वादेव / नापि दृष्टपूजादिफला स्वरूपतो हेतुत्वात् / परैर्विप्रलब्धत्वात् परविप्रलिप्सया वा प्रवृत्तिरित्यंपि न युक्तम् / ईदृश विप्रलम्भासम्भवात् तस्मात् यागादौ विश्ववृत्तिरनन्यथासिद्धा तस्यापि तावत् कारणत्वं कल्पयति / न तु दृष्टमेव सहकारिचक्रं कारणमित्थर्थः / तदेतद् व्या. प्रकाशः। मस्तु कृतं सहकारिवैत्रित्र्येणेत्यत आह / न चेति / ननु सहकावैचित्र्यानुप्रवेशं विनैव यथोत्पन्नक्षणस्वरूपमुपादाय कार्यवैचित्र्यमुपपत्स्यत इत्यत आह / न त्विति / तदनपेक्षा सहकार्यनपेक्षः। तथा विचित्रकार्यार्जकः / बौद्धमते सहोत्पन्नविचित्रसहकारिसहितस्यैव विचित्रकार्यजनकवादित्यर्थः। तदेवं विलक्षणसामग्री विचित्रकार्यजनिकेति प्रसाधितम् // 7 // सम्प्रति दृष्टकारणमेलकात्मिकैव सा तथा, तदधिष्ठानं चास्मदादिभिरेव शक्यमिति पुनरपि सिद्धसाधनमित्याक्षिपति अस्त्विति - विश्ववृत्तितः विश्वेषां लोकानां वृत्त प्रवृत्तेरदृष्टं शिद्धयतीत्यर्थः / तदेव प्रपञ्चयति / विफलेति / भूतचैतन्ये भुतानामेव परिणतिभेदाद्वासनात एवोत्तरकार्यमिति न परलोकसिद्धिरित्यत्र दोषमाह-यदि हीति / प्रकाशिका भूतचैतन्ये हीति / परिणतिभेद एव वासनेत्यभेदेनैवान्वयो विकल्पेन वा परिणतिभेदावसा. नयोरन्वयः। भूतचैतन्यपक्ष आत्मनोऽनङ्गीकारात् भूतस्य शरीरादेर्भस्मीभावान परलोकसिद्धिरिति मकरन्दः / भूतचैतन्य इति / भूतस्य शरीरादेर्भस्मीभावादात्मनश्वानङ्गीकारात् कस्य .परलोक इति न तसिद्धिरित्यर्थः // ... क्षणोऽपीति / क्षणिकपदार्थोऽपीत्यर्थः /