________________ 5 प्रथमस्तवके ] . प्रकृतिकारणतावादखण्डनम् / शक्तिभेदादयमदोष इति चेन्न / धम्मिभेदाभेदाभ्यां तस्यानुपपत्तेः। असङ्कीर्णोभयजनमस्वभावत्वादयमदोष इति चेत् / न / न हि स्वाधीनमस्यादहनत्वम् , मपि तु तज्जनकस्वभावाधीनम् / तथाच तदायत्तत्वादहनस्यापि तत्त्वं केन वारणीयम् / न हि तस्मिञ्जनयितव्ये नासौ तत्स्वभावः। तस्माद्विचित्रत्वात् बोधनी। शङ्कामाह-शक्तिभेदात्-इति / नानात्वादेकस्यैव कार्यवैचित्र्योपपत्तेर्न पूर्वोक्तदोष इति / नइति / सा हि शक्तिर्धर्मिणो स्याद् भिन्ना वा ऽभिन्ना वा भिन्नाभिन्ना वा, प्रथमे शक्तिरेव कारण स्यात् तदन्वयव्यतिरेकानुविधानात् कार्यस्य / न द्वितीयः, शक्तेरेवापलापात् / न तृतीयः, प्रमाणा भावात् तयाघाताच्च / तेन भेदाभेदाभ्यामिति ग्रन्थश्च प्रत्येकसमुदायपरो योजनीयः। यद्वा, दहनादहनजननशक्तिमतः कारणाज्जातस्य कार्यस्य दहनादहनात्मकत्वप्रसङ्गेन विरुद्धधर्मसंस. र्गाद् भेदः स्यात् एकसामग्रीजन्यत्वेनाभेदश्च स्यादिति शक्तिभेदानुपपत्तिरिति / श्लोकशेष विवरीतुं शङ्कते- असङ्कोर्ण इति / नायं दहनादहनाद्यात्मकत्वप्रसङ्गदोषोऽस्तीत्यर्थः / नइति। यदि हि स्वाधीनमस्यादहनस्यादहनत्वं तदा दहनस्यादहनप्रसङ्गो वक्तुं न शक्यतापि, न चैवं, किन्तु कारणगतादहनजननस्वभावायत्तम् , तथा च दहनस्यापि तदेकसामग्रीकस्य तत्त्वमदहनत्वं दुर्वारमिति / एतदेव श्लोकशेषेणोपपादयति नहि-इति / तस्मिन् दहने जनयि. तव्ये नासौ भावो दहजननस्वभाभो न भवति, स्वभावभेदाभ्युपगमे तु कारणवैजात्यं स्यादिति भावः / उपसंहरति-तस्मात्-इति / वस्तु कार्यवैचित्र्यात् कारणवैचित्र्यमभ्युपगम्यैव क्षणभ मित्वाद् भावानां स्वरूपत एव वैचित्र्यं न स्वेकस्यैवानुयायिनः सहकारिनिवन्धनं वैचित्र्यमिति प्रकाशः। स्यादित्युभयापादनमिति नाप्रसिद्धिः / ननु, दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वानो. कदोष इति शङ्कने / शक्तिभेदादिति / स धर्मभेदो न धर्मभिन्नः तथा सति धर्मिणोऽभिन्नत्वात्तदभिन्नस्य शक्तिरूपधर्मस्य भेदानुपपत्तेः / नापि धर्मिभिन्नः, तस्यैव कारणान्तरत्वे प्रतिज्ञातैकजातीयकारणत्वव्याघातापत्तेः / नापि धर्मिणो भिन्नाभिन्नो, विरोधादिति परिहरति / धर्मिभे दाभेदाभ्यामिति / परस्परविलक्षणानेकजनकस्वभावस्य कारणत्वमिति नोभयात्मकत्वमेकस्येत्याह। मसङ्कीर्णेति। जनितादहनस्य दहनेऽपि जनयितव्ये अदहनजनकस्वभावत्वमनुवर्तते न वा? आये, न हीति / अस्य अदहनत्वेनाभिमतस्य / अन्त्ये पुनरेकजातीयकारणव्याघातः / तस्यैवादहनजनकस्वभावत्वमतिक्रम्य स्वभावान्तरेण दहनजनकत्वादिति भावः। तथाचेति / दहनो यद्यहन जनकस्वभावजन्यः स्याददहनः स्यादिति / एवं विपरीतमप्यापाद्यमित्यर्थः / विचित्रकार्याणी विचित्रकारणजन्यत्वे प्रत्यक्षानुमाने प्रमाणमुपसंहरनेवाह / तस्मादिति / ननु स्वरूपमेव-विचित्र प्रकाशिका। उभयापादनमिति / यद्यपि दहनत्वमेवापाचं तथापि पक्षतावच्छेदकमहिम्ना तदुभयापादनमित्यभिप्रेत्येदमुक्तम् / यद्यपि पटपक्षकदहनत्वापादककतर्कादविशेषोऽस्य, तथापि तत्र पटत्वमत्रादहनत्वं पक्षतावच्छेदकमिति भेदः। वस्तुतोऽत्र तथाशब्देनोभयजनकस्वभावजन्यत्वस्यापाद. कत्वे, न लाभः तत्र दहनजनकैकस्वभावजन्यत्वमापादकमिति भावः। नाप्रसिद्धिरित्युपलक्षणं न वैयधिकरण्यमित्यपि प्रष्टव्यम् / ननु शक्तिभेदेऽपि शक्तस्य भेदादेककारणकत्वं भज्येतेत्यत आह / नन्विति। तथाचैवमपि धर्मानभिन्न इत्यर्थः / उभयशब्दस्य द्वितयार्थकत्वेन सर्वसङ्गातिरित्यन्यथा व्याचष्टे / परस्परेति / तत्वं दहनत्वमिति भ्रमं निवारयन्नेव वैयधिकरण्यादन्यथातर्कमाह / दहनो यद्यदहनेति // 7 // मकरन्दः। नाप्रसिद्धिरित्युपलक्षणं, नापि वैयधिकरण्यमित्यपि द्रष्टव्यम् // 7 //