________________ र व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [7 कारिकाव्याख्यायो बनपेक्षाऽनुपपत्तेः। .. नाप्यनेकम विचित्रम् / यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्यापि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् / न चैवम् / बोधनी। इति / पूर्वपूर्वमुत्पाद्योत्तरोत्पादनं हि क्रमः, अन्यथा यौगपद्यप्रसङ्गात् / तत्र स्वेतरनिरपेक्षस्य कार्योत्पादने पूर्वोत्पादनमपेक्ष्योत्तरोत्पादनमित्येवमात्मकः क्रमो बाध्येत / क्रमाङ्गीकारे च पूर्वपूर्वमुत्पादनमुत्पाद्यमानं वापेक्षमाणस्य कार्यकरत्वमिति स्यात् / तत्र स्वेतरापेक्षालक्षणसहकारिवादः सिद्धः स्यादिति। द्वितीयपादं व्याचष्टे-नाप्यनेकम्-इति। नानेकमप्यविचित्रमेकजातीयं कारणं विचिप्रस्य कार्यस्येति / कुतो नैवमित्याशङ्कय किं तत् कारणं दहनैकजननस्वभावम् , अदहनैकजनन· स्वभावम् उभयजननस्वभाव वेति विकल्पं हृदि निधाय प्रथमे दोषमाह-यदि हि-इति / असावदहनाभिमतो नादहनः स्यात् किन्तु दहनसामग्रीजन्यत्वेन दहन एव स्यादिति भावः / द्वितीयेऽप्याह-दहनो वा-इति / अदहनसामग्रीजन्यत्वादिति / तृतीयेऽप्याह-उभयात्मकइति / उभयमप्युभयात्मकं भवेदिति। विपर्ययस्तु दृश्यत इति। शक्तिभेदो नचेत्येतदवतारयितुं प्रकाशः। हेत्वभावादित्यर्थः / अन्त्ये, क्रमेति / तस्यैव द्वितीयस्य कारणस्यापेक्षणादित्यथः। एकजातीयं कारणं दहनजनकैकस्वभाब वा ? अदहनजनकैकस्वभावं वा ? उभयजनकस्वभावं वा ? / आये दोषमाह / नासाविति / कारणाभावादित्यर्थः। भवन् वा दहनात्मको भवेदित्याह। दहनो वेति / इतरदहनवत्तद्धेतुस्वभावप्रसूतत्वादित्यर्थः / दहनजनकैकस्वभावस्य अदहनजनकत्वे व्याघातोsपीति भावः / द्वितीये तु यथाव्याख्यातवैपरीत्यं फकिकार्थः, नाऽसौ दहनोऽदहनो वा स्यादिति, कृत्वा। तृतीये, उभयात्मक इति // अत्र च पटो' यदि यावद्दहनजनकजन्यः स्यात् पटो न स्याद् , दहनो वा स्यादित्यदहनदहनत्वयोरापादनम् / अदहनो वा यदि तथा स्याद् दहनः __ प्रकाशिका। दहनत्वमेवापादनीयमतो विकल्पयति / एकजातीयमित्यादि / अदहनत्वाभावदहनत्वयोः पौनरुक्त्यमतोऽन्यथार्थप्रतिपत्तये हेतुं पूरयति / कारणाभावादिति / तथा चादहनेऽनुत्पत्तिदहनत्व आपाय इत्यर्थः / एवमग्रेऽपि / यथाश्रुते वैयधिकरण्यं तृतीये चोभयात्मकत्वमापाद्यमप्रसिद्धमित्यन्यथा तर्कमाह / अत्र च पटो यदीति / इत्यदहनदहनत्वयोरिति / यद्यप्यदहनत्वं प्रथमतर्केण नापाद्यं किन्तु तदभावो दहनजकस्वभावत्वे तर्कानुपदर्शनं च,तथाप्यत्रेतिशब्दः प्रकारवची तथा च दहनो यद्यदहनजनकस्वभावजन्यः स्याद्दहनो न स्यात् अदहनो वा स्यादिति द्वितीयस्तर्कः। स च द्वितीकल्पे यथाव्याख्यातवैपरीत्यमित्यादिप्रन्थेन दर्शितप्रयोग इति तत्फलमेव दर्शितं अदहनदहनस्वयोर्यथायोग्यं प्रथमद्वितीयात्वयः। तृतीयतर्कमाह अदहनोऽयमिति / . मकरन्दः / यथावते वैयधिकरण्यादाह / अत्र चेति। श्रीगणेशाय नमः। यदि हि भन्यूनमनतिरिक्तं वेति / अन्यूनानतिरिक्तं दहनकारणमेष तदेकजातीयं कारण यदि स्यादसौ प्रसिद्धोऽदहनो न स्यात् नोत्पद्येत दहन एव वा स्यादित्येका योजना। अन्यूना नतिरिक्तमित्यत्र विभक्तिविपरिणामेन अदहनस्यापि हेतुर्यद्यन्यूनानतिरिक्तस्तदैकजातीयकारणं स्यादसौ दहनो न भवेत् अदहन एव वा स्यादिति द्वितीया / तदेकजातीयं कारणमन्यूनानतिरिक्त दहनकारणमदहनस्यापि हेतुः स्यादसाबुभयात्मको भवेदिति तृतीया //