________________ प्रथमस्तवके ] ब्रह्मकारणतावादखण्डनम् / 63 __न तावदेकस्मादनपेक्षादनेकम् / अक्रमात् क्रमवत्कार्यानुपपत्तेः। क्रमवत्ताषत्कार्यकारणस्वभावत्वाचस्य तत्तथा यौगपद्यवदिति चेत् / अयमपि क्षणभङ्ग परिहारो न तु सहकारिवादे, पूर्वपूर्वानपेक्षायां क्रमस्यौव व्याहतेः। क्रमनियमे बोधनी। स्वभावः कार्यान्तरे जनयितव्येऽपि नापति यावद्भावभावित्वात् स्वभावस्येति / आद्यं पादं विवृणोति-न तावत्-इति / नैकस्मात् क्रमवत्सहकारिविधुरादनेक क्रमवत् कार्य, भवतीति शेषः / अक्रमात्-इति / क्रमवत्सहकारिवैधुर्येणासम्भवायितक्रमादिति / यद्वा, कार्यस्य भेदस्तावत् कारणभेदात् स्यात् यथा घटपटयोः, तदभावेऽपि कालभेदाद्वा यथा दुग्ध. दध्नोः / अत्र तु पूर्वः कल्पो न भवति कारणस्यैकत्वाभ्युपगमादित्यभिप्रत्योत्तर आह-न तावत्इति / सहकार्यभावेन कालक्रमायोगादिति / अत्र तु नानेककार्य भवतीति यथास्थित एव ग्रन्थः सङ्गच्छत इति / शङ्कते-क्रमवत्-इति / तस्य कारणस्य / तत् कार्य। तथा क्रमवद् / यथा ोकस्य यौगपद्यम् / अनेकेषामेककालता हि योगपद्यं, तत् कथमेकस्य भवेत् तत्रापि स्वभावत एव युगपत् कार्याणि कुर्वन् दृष्टान्त इत्यर्थः / एवं वदता चार्वाकवराकेण सहकारिवाद एवाभ्युपगतः स्यादिति प्रतिपादयन्नाह-अयमपि-इति / यावत्कार्यकरणसमर्थस्वभावो भावो जातः स तावन्त्यपि कार्याणि तदैव कुर्यात् समर्थस्य क्षेपायोगात् / ततः स क्षणान्तरे अर्थक्रियाभावादसत्त्वमेवेति यदा बौद्धः क्षणभङ्गं ब्रूयात् तत्रैष परिहारः सङ्गच्छते / एकस्यैव स्वभावतः क्रमेणानेककार्यकरणमुपपद्यत इति / अपि चैति समुच्चयोः बौद्धस्यैष शिरसि सम्प्रहार इत्येतदपेक्ष्येति / सह कारिसन्निधिक्रमेणैकमेव तत्तत्कार्यं करोतीति सहकारिवादः, न तस्यायं बाध इति / कथमबाधक यावता स्वेतरनिरपेक्षमेकमेव क्रमेण कार्याणि करोतीत्युक्तिः सहकारिवादं बाधेतवात आह-पूर्व प्रकाशः। भावजन्यत्वेन विजातीयकार्याणामप्येकजात्यं स्यादित्यर्थः / अक्रमादिति। क्रमप्रयोजकसहकारिविधुरादित्यर्थः / क्रमवदिति / सहकारिविरहेऽपि ऋमिककार्यार्जनशीलत्वादक्रमस्यापि क्रमिककार्यजनकत्वं स्यादित्यर्थः / योगपद्यवदिति सप्तमीसमर्थाद्वतिः। यथा कार्ययोगपद्ये अयुगपत्स्वभावोऽपि दीपः कारणमेवमक्रमोऽषि ऋमिककार्येषु कारणं स्यादित्यर्थः। तत्-कार्यम् / तथा-क्रमवदित्यर्थः / अयमपीति / समर्थस्य विलम्बानुपपत्तेरनेकानि ऋमिकाणि कार्याण्युत्पत्यन्तरंमेंब कुर्यादित्यत्र समर्थोऽपि न तथा, क्रमबत्तावत्कार्यकरणस्वभावस्थोत्पादाद्विति न विरुद्धधर्माध्यास इति क्षणभङ्गपक्षे परिहारः सम्भवी। स्थैर्य्यपक्षे तु क्रमिकसहकार्यपेक्षां विना तादृशः स्वभाव एव न स्यादित्यर्थः / / पूर्वपूर्वक्रमिककार्यानपेक्ष उत्तरकार्योत्पादः ? तत्सापेक्षो वा ? / आये, पूर्वेति / विलम्ब प्रकाशिका। ऽपि नित्यस्य कालादेः क्रमिककार्यजनकत्वमस्त्येवेत्यत आह / क्रमप्रयोजकेति / ननु प्रथमासमर्थत्वे वैम्यम् न हि योगपद्यं कारणस्वभावजन्यं किन्तु युगपत्कालीनानि कार्याणीत्यत आह / सप्तमीसमर्थादिति / ननु स्वभाववादेन परिहारः स्थैर्यपक्षेऽपि संभवत्येव तत्कुतो न सहका. रिवाद इत्युक्तमत आह। समर्थस्येत्यादि स्वभाव एव न स्यादित्यन्तम् / तथा च परैः सहकारिविलम्बन विलम्बाभ्युपगमात, स्वभावस्य कुर्वद्रूपात्मकस्य नियामकत्वं वक्तुं शक्यते स्थिरवादिनान्तु तादृशस्वभावस्य सहकारिणं विनानुपपत्तिः। तत्स्वीकारे तु विजातीयं कारणं सिद्धमेवेत्यर्थः / ननु कारणाभेदे कार्याभेदः सत्यदहनत्वे दहनत्वे चोपपद्यत इति कुतो नियत मकरन्दः। दपि नित्यातू कालादेः क्रमेण कार्याणीत्यत आह / क्रमप्रयोजकेति /