________________ 12 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [7 कारिकाव्याख्यायो यषिलक्षणमपि विलक्षणाऽनेककार्यकारि। यथा प्रदीफ एक एव तिमिरापहारी, वर्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न / नैचित्र्यात् कार्यस्य / एकस्य न क्रमः कापि वैचित्र्यश्च समस्य न / / शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः // 7 // बोधनी। दृश्यते स्वरूपसहकारिवैलक्षण्यमिति भावः / अत्र हेतुमवतारयति-वैचित्र्यात्-इति / कथं साध्यमेव कारणवैचित्र्यं हेतुरित्यत्राह-कार्यस्य-इति। व्याचष्टे-एकस्य-इति / न तावदेकमेव कारणम् , एकस्याक्रमत्वेन कार्यक्रमानुपपत्तेः / अनेन कालकृतवैचित्र्यं कारणवैजात्ये हेतुर्दर्शितः। यद्वा, प्रथमसंग्रहश्लोकानुपन्यस्तमेव कार्यक्रममत्रवाशङ्कितस्य कारणैकत्वस्य निराकरणायोक्तासंग्रहोक्तं वैचित्र्यमवतारितमिति / समस्यापि शक्तिभेदात्कार्यवैचित्र्योत्पत्तिमाशङ्कयाह-शक्तिभेदो न च-इति / धर्मिव्यतिरेकाव्यतिरेकविकल्पदुःस्थत्वात्तस्येति भावः / यद्वा, भावादभिन्नः शक्तिभेदो न कारणं भावमात्रकारणत्वेन समानयोगक्षेमत्वादिति / एकप्रसरेण योजनाभेदे तु कारणवैचित्र्यस्वीकार इति भावः / ननु स्वभाव एवायं भावस्य यत्समं च विषमं कार्य करोतीति तत्राह-अमिन्नस्वभाव-इति / य एवास्यैकस्मिन् जनयितव्ये स्वभावः स एवान्यस्मिन् जनयितव्येऽपि, स्वभावस्य दुर्लध्यत्वात् / ततश्चाभिनस्वभावस्य कथं विलक्षणकार्यनिर्माणमिति भावः / अभिन्न इत्यस्य पूर्वशेषत्वे त्वयमर्थः प्रकाशः। मदृष्टचरमित्याह / दृश्यते हीति / तिमिरमालोकाभावः। तदपहार आलोकः / तत्कारी दीपः विण्डितरूपः। रूपान्तरं घटादिरूपम् / प्रदीपे च न स्वरूपभेदसहकारिभेदावित्यर्थः / तथाच तद्दृष्टान्तेनान्येषामपि विचित्रकार्याणाम विचित्रकारणजन्यत्वमनुमेयमिति भावः // न चिच्यादिति / दृष्टान्तेऽप्यविचित्रकारणजन्यत्वमसिद्धमिति भावः // एकस्येति // एकस्य कारणस्य सम्बन्धी न क्रमः कार्याणाम् / समस्यैकजातीयस्य च कारणस्य सम्बन्धि न वैचित्र्यं कार्याणाम् / शक्तिविशेषो न कार्यवैचित्र्यहेतुः, धर्म्यभिन्नो यतः / चो हेत्वर्थे / विचित्रकार्यजननस्वभावादपि कार्यवैचित्र्यमुपपाद्यम्। एकत्र कार्ये यत्स्वभावो जनकस्तदितरकार्यजननेऽपि तत्स्वभावो वाच्यः। अन्यथैकस्य स्वभावभेदादेकल्बादिहानिप्रसङ्ग इत्यैकस्व प्रकाशिका। दादीनापीति / यद्यपि ब्रह्मणास्मदादिना वा शक्याधिष्ठानं तथापि तावन्मात्राभिज्ञसिद्धावपिन सकलदर्शीश्वसिद्धिरित्यत्र तात्पर्यम् / तदित्यव्ययं षष्ठद्यन्तम् / तथाच तस्य द्रष्टुं शक्यत्वादित्यर्थः। तिमिरस्य तेजोऽभावतया तदपसारस्तेज एव न च तत्कारित्वं तस्येत्यत आह / पिण्डितरूप इति / तथा च तेजःकारित्वं तेजसो व्यक्तिभेदादविरुद्धमिति भावः। प्रदीपे चेति / अयं पूर्वपक्षिणोऽभिमान इति भावः / अत एवाग्रेऽभिमानखण्डनमेव करिष्यति दृष्टान्तेऽपीत्यादिना। एकस्य क्रमः परैरपि नाभ्युपगत इत्यतः पूरयति सम्बन्धी कार्याणामिति चेति / एवमग्रे. मकरन्दः / मिति। तदित्यव्ययं षष्ठयन्तम् / तेन, तस्य द्रष्टुं शक्यत्वादित्यर्थः / नन तिमिरं तेजोऽभावः, तदपहार एव प्रदीपो, न तु तत्कारी, अभेदे जन्यजनकभावानुपपत्तेरित्यत आह / तिमिरमिति / तथा च व्यक्तिभेदमादायाविरोध इति भावः / प्रदीपे चेत्यापाततः अत एव दूषयति / दृष्टान्तेऽपीति / एकस्य कारणस्य कमो न पराभ्युपगतोऽपीत्यनाक्षिप्तसमाधानमिति पूरयित्वा व्याचष्टे / एकस्येति / एवमप्रेऽपि / अक्रमा