________________ प्रथमस्तवके ] ब्रह्मप्रकृतिकारणतावादपूर्वपक्षः / पिण्डितस्य / इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य दिव्यं; पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् // 6 // तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण / दृश्यते बोधनी। अथ वैचित्र्यादिति हेतुमवतारयितुं शङ्कते-तथापि-इति / यद्यपि कार्यस्य नियतजातीय. कारणनियमस्तथापीति / कथं तर्हि कार्यवैचित्र्यमित्यत आह-दृश्यते हीति / न चात्र प्रकाशः। तत्र साध्याव्यापकत्वात् / आगमोऽप्यत्रास्त्येवेत्येके / पवनोत्कर्षेण वह्नयुत्कर्षदर्शनात् तेजोमाने तस्य निमित्तत्वं न वह्निमात्रे, सामान्यस्य सामान्य प्रति प्रयोजकत्वे विशेषस्योपाधितायामतिप्रसङ्गादित्यन्ये / पिण्डितस्य-सुवर्णस्य / दिव्यमिति दृष्टान्तार्थम् / तत्राप्रश्नात् // 6 // एतावता कारणमात्रे सिद्धेऽपि सापेक्षत्वादित्यत्र सिद्धसाधनं शङ्कते। तथापीति / एकमिति त्रिदण्डिमतसमुत्थानम् , तेषां ब्रह्मण एव सकलकारणत्वात् / एकजातीयमिति साखथमतम् / तेषां पुरुषाणां भेदात् प्रतिपुरुषं च महत्तत्त्वानां भेदेऽपि प्रकृतिविकारत्वात् प्रकृतेश्चैकत्वादेकजातीयत्वात् / तथाच कारणस्यैकव्यक्तित्वेनैकजातीयत्वेन वा नेइवरसिद्धिरस्मदादिनापि तद् द्रष्टुं शक्यत्वादिति प्रकृतसङ्गतिः। न चाविचित्राद् कारणाद्विचित्रं कार्य प्रकाशिका। स्त्वस्यापि जातेः सिद्धः। अत एव तेजस्त्वापेक्षया द्रव्यत्वमेव सामान्यमिति तदेव पवनजन्यतावच्छेदकं किमिति न स्वीक्रियत इत्यनुयोगो निरस्तः। द्रव्यत्वस्य नित्यवृत्तित्वात, जन्यद्रव्यत्वस्थ पृथिवीत्वसङ्करेणोपाधित्वात् / ननु पृथिवीजन्यत्वमेवोपाधिः स्यादत आह / आगमो. ऽपीति / तथाच पक्ष एव साध्यव्यापकत्वमिति भावः / आगमस्तुवायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।ज्योतिरुत्पद्यते भाखस्तद्रूपगुणमुच्यते // इत्यादिः / यद्विशेषयोरित्यादिन्यायावतारे निर्वातस्थदीपस्थेत्यादिकमेव सम्यक् / तदनवतारे स्वेतावतापि वह्निमात्रे कारणत्वमायाति न तु जन्यतेजोमात्र इत्यरुचिं विभावयति। अन्य इति / तत्राप्रश्नादिति / यद्यपि तत्गतसामान्यमपि प्रश्नाविषय एव दिव्यस्यापि दहनत्वात, तथापि तार्णादिदहनसामान्यस्यैव प्रस्तुततया प्रश्नविषयत्वमित्याशयेनेदमुक्तम्। एवं च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येको ग्रन्थः, तेन पिण्डितस्यापि दृष्टान्तता लम्यते। अन्यथा तस्यापि प्रश्नाविषयत्वेनासङ्ग्रहापत्तः। न च औदय्यस्यापि प्रश्नाविषयतया तत्रोत्तरविरोधः तार्णपदेन पार्थिवेन्धनजन्यवह्वेरेवोक्तत्वेन तस्यापि प्रश्नाविषयत्वात् / दृष्टान्तपरत्वाद्वा // 6 // प्रकृतेरिति / एकप्रकृतिविकारत्वादेकजातीयत्वं महत्तत्वानां पुरुषमेदेन भेदेपीऽत्यर्थः / भस्म मकरन्दः। न्नसाध्यव्यापकत्वादिति भावः / अत एवाह / तैजसेति / भागमोऽपीति / "ज्योतिरुत्पद्यते वायो"रित्यादिविष्णुपुराणरूप इत्यर्थः / यद्विशेषयोरिति न्यायात्तावता वह्निसामान्यमाने तद्धेतुत्वं सिद्धथति, न तु तेजोमात्रे / अन्यथा द्रव्यमात्र एव तदापत्तेरित्यनुशयादाह / अन्य इति।दिव्यमितीति / यद्यपि दिव्यस्यापि दहनतया तद्गतसामान्यमपि प्रश्नविषयः, तथापि तार्णाऽऽदिदहनसामान्यस्य प्रश्नविषयत्वादस्यातथास्वमित्याशयः। यद्यप्येवं पिण्डितस्येत्यप्ययुक्त, तत्राप्यप्रश्नात् / तथापि तदपि दृष्टान्तार्थमेव / एवञ्च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येकप्रन्थो बोध्यः / दिव्यमितीत्युपलक्षणम् , उदर्यस्यापि दृष्टान्तत्वमित्येके। तार्णपदस्य पार्थिवेन्धनदहनपरतया तत्र प्रश्न एवेत्यन्ये // 6 // . प्रकृतेश्चेति / तथाचैकप्रकृतिविकारत्वान्महत्तत्त्वादीनामेकजातीयत्वमित्यर्थः / तद् द्रष्टु