________________ 40 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [ 6 कारिकाव्याख्याया धः। किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम् ? तृणादीनां विशेष एव नियतत्वादिति चेत् / न / तेजोमात्रोत्पत्तौ पवनो निमित्तम् , अवयवसंयोगो. ऽसमवायी, तेजोऽवयवाः समवायिनः / इयमेव सामग्री गुरुत्ववद्व्यसहिता बोधनी। मान्तरजातिभेदोऽप्रामाणिको येन तदङ्गीकारे सर्वत्रानाश्वासः स्यादिति किं पुनः-इति / किमा. क्षेपे / विशेषे स्वे स्वे कार्यविशेषे नियतत्वेनाभ्युपगमादिति / अनुवृत्तं तु न किञ्चित् दृश्यते इति भावः / न-इति। समवाय्यसमवायिनिमित्तानामनुवृत्तिरस्ति तावत् सामान्यप्रयोजकम् / अनुवृतैव च सामग्री तत्तत्सहकारिभेदवशात्पिण्डितादिविशेषोत्पत्तौ निबन्धनमुद्भूतस्पर्शतेजोऽवयवतसंयोगपवनास्ताणताणसामान्यसामग्रीति न कुत्रचिद्विरोध इति // 6 // प्रकाशः। न त्वन्येति वाच्यम् / यागादौ बहुवित्तव्ययायाससाध्ये यागत्वसत्त्वेऽपि किमियं व्यक्तिः स्वर्गजनिका, न वेति संशये प्रवृत्त्यभावापत्तेः / यदि सा पापव्यक्तिर्नरकजनिका, तदा कृतेऽपि प्रायश्चित्ते नरकं जनयिष्यत्येव अन्यथा तु प्रायश्चित्तं विनाऽपि न नरकमित्युभयथापि प्रायश्चित्ते प्रवृत्त्यनुपपत्ते. श्चेति / किं पुनरिति / दहनगतं सामान्य दहनसामान्यं तेजस्त्ववह्नित्वादि / तेन नोत्तर विरोधः / तृणादीनामिति / तथा च सामान्यमाकस्मिकं स्यादिति भावः / तेजोमात्रेति / तेजः पदं कार्यतेजःपरम् / न च सूर्यालोके व्यभिचाराद् न पवनस्तेजोमात्रे निमित्तमिति वाच्यम् / निर्वातस्थितस्य दीपस्य वातं विना नाशदर्शनेन तत्र पवननिमित्तकत्वनिश्चयादन्यत्रापि तेजस्त्वेन पवनजन्यत्वानुमानात् / न च वहित्वमुपाधिः / तैजसशरीरस्य पाञ्चभौतिकत्वेन पवनजन्यतया प्रकाशिका। यदि सेति / नचाजनकत्वेऽपि तस्या जनकजातीयनाशार्थ प्रायश्चित्ते प्रवृत्तिरिति वाच्यम् / दुःखा जनकत्वेन द्वेषाविषयतया तन्नाशार्थमप्रवृत्तेः, निष्प्रयोजनकत्वेन द्वेषमात्रात् कृतेरनुत्पत्तश्चेत्या शयात् / निवातस्थेति / ननु वाताभावे दीपध्वंस इत्येतावता तस्य कारणत्वं नायाति कार्यानुत्पादप्रयोजकव्यतिरेकप्रतियोगिन एव कारणत्वात् / न वा वाताभावो वह्निनाशे कारणं समवायिकारणासमवायिकारणनाशयोरेब द्रव्यनाशकत्वादिति चेन्न / विनाशपदेन सजातीयानुत्पादप्रयुकसन्तानोच्छेदस्य विवक्षितत्वात् / तथाचाशुविनाशितया पूर्वदीपनाशे वातरूपकारणाभावेनानि मानुत्पादे सति सन्तानोच्छेद इत्यत्र तात्पर्यम् / तेजस्त्वेन-जन्यतेजस्त्वेन / न चेति / साधनावच्छिन्नसाध्यव्यापको यः स उपाधिरतो न वातध्वंसे साध्याव्यापकत्वम् / नन्वेवमपि वहि त्वावच्छिन्ने पवनस्य कारणत्वमायाति न तु जन्यतेजोमात्रे,पवनोत्कर्षेण वन्द्युत्कर्षादपि वह्नित्वावच्छि. ने पवनस्य कारणत्वमिति चेत् वह्नित्वापेक्षया जन्यतेजस्त्वस्य सामान्यतया तस्यैवावच्छेदकत्वात / नच वहित्वं जातिरूपतया लध्विति वाच्यम् / भास्वररूपसमवायिकारणतावच्छेदकतया जन्यतेज मकरन्दः।। निश्चये सत्येव प्रवृत्तेरिष्टापत्तिरिति यदि ब्रूयात् , तदा दोषान्तरमाह। यदि सेति। नचाजनकव्य. क्तेरपि तज्जातीयतया द्वेषात्तनाशार्थ प्रवृत्तिरिति वाच्यम् / दुःखाजनकत्वे द्वेषस्याप्यभावात् , निष्प्रयोजने द्वेषमात्रात् कृतेरनुत्पत्तेश्चेति भावः / निर्वातस्थितस्येति।ननु नैतावता कारणत्वम् न हि कारणाभावेन कार्यध्वंसः, किन्त्वनुत्पाद इति चेन्न। नाशपदेन प्रवाहानुत्पादेनात्यन्तो. चछेदस्य विवक्षितत्वात् / तथाचाऽऽशुनाशितया पूर्व प्रदीपनाशेऽपि वातं विनाऽग्रिमतदनुत्पादा. दिस्यत्र तात्पर्यम् // तेजस्त्वेन कार्यतेजस्त्वेन / न चेति / न च पवनध्वंसादिषु साध्याऽव्याप्तिः / साधनावच्छि