________________ प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् / प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः(१) / अस्माकन्तु यत्लामान्याक्रान्तयोययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः / तथाचावान्तरविशेषसद्भावेऽपि न नो विरो. बोधनी।। परिहरति-न-इति / प्रत्यक्षानुपलम्भाभ्यां गृहीतान्वयव्यतिरेक बीजत्वादिजातीयमङ्कुरादिकायें न प्रयोजक कारणं किन्तु तद्विशेषः कुर्वज्जातीयत्वमिति वदतो बौद्धस्यैष प्रसङ्गो बाधक इति तस्याप्रामाणिक कारणगतं विशेषमिच्छतोऽप्रामाणिकस्यैव कार्यगतस्यापि विशेषस्य सम्भावनया तस्यैव तत्कारणप्रयोज्यत्वं, नतु तद्विजातीयस्येति शङ्कावशादनुमानोच्छेदप्रसङ्गात् / एतच्च क्षणभङ्गे स्फुटो. भविष्यति / अस्माकं पुनः परिदृश्यमानजातीययोरेव कार्यकारणभावं नियच्छतां कार्यगतविशेषसम्भावनायामपि तज्जातीयमात्रात्तजातीयानुमाने न कश्चिद्विरोधः / न च तृणादिजन्योऽग्न्य प्रकाशः। नास्माकमित्याह / प्रत्यक्षेति। अप्रामाणिकबीजकुवद्रूपत्ववदप्रामाणिक एव कार्यविशेषो यस्य कारणविशेषापेक्षेति बौद्धस्य दोष इत्यर्थः / अस्माभिस्त्वप्रामाणिको विशेषो नोपयत इति भावः / अस्माकं त्विति / यत्र कारणसामान्य कार्यसामान्ये व्यभिचारि दृश्यते, तत्रौव विशिष्य कारणताग्रहः / यत्र तु स न दृश्यते तत्रोपस्थितसामान्येनैव कार्यकारणताग्रहः। यदि च तृणादिवद्वह्निविशेषाद् धूमविशेषः स्यादित्युच्यते, तदा नेदमनिष्टमित्यर्थः। ननु, कार्यकारणभावग्रहो न तावद्वक्तययोरेव / स हि व्यक्तिमात्रमपेक्ष्य ? तद्विशेष वा ? / नायः / घटो यदि यावत्पटजातीयापेक्षणीयापेक्षः स्यात् पटजातीयः स्याद् , घटजातीयो न स्यादित्यत एव बाधकात् / विशेषोऽपि पूर्ववर्तित्वमात्र वा ? तत्तद्यक्तित्वं वा ? / नायः। यावत्पटादिजनकजन्यत्वे घटादिव्यक्तीनामभेदावैजात्यापत्तेः / रासभादिसाधारण्याच्च / अत एव नान्त्यः / व्यक्तयोरेव कार्यकारणभावे पूर्व तदनिश्चये प्रवृत्त्याद्यनुपपत्तेश्च / नाऽपि जात्यपेक्षया। भक्षितविनष्टबीजादिव्यक्तिष्वप्यापत्तेः। न चेष्टापत्तिः। तस्य सर्वथा कार्याजननाच्छिलाशकलतुल्यत्वात् / मैवम् / बीजादिव्यक्तीनामेव बीजवादिना सामान्येनानन्यथासिद्धान्वयव्यतिरेकवत्त्वेन कारणत्वात् / क्वचित् कार्यव्यतिरेकञ्च सहकारिवैकल्यात् / अत एव शिलाशकलवैषम्यम् / न हि यस्मिन् सति कार्य भवत्येव तत्कारणम् , अपि तु यस्मिन् सत्येव भवति / एतच्च भक्षित. विनष्टेऽपि सामान्यतोऽस्त्येव / न च सामान्येनापि रूपेण या व्यक्तिः कार्य जनयत्येव सा कारणं प्रकाशिका। अस्माभिरिति / वहिवैजात्यं चोक्तयुक्त्या प्रामाणिकमेवेति भावः। घटो यदीति / व्यक्तिमात्रकारणत्वे यावत्पटापेक्षत्वाभ्युपगमे घटस्येति बोध्यम् / एवं पूर्ववर्तिव्यक्तिमात्रकारणत्वेऽपि / यावत्पटजनकजन्यत्वाभ्युपगम इत्यवधेयम् / रासभादीति। पूर्ववर्तित्वमात्रस्य तत्रापि सत्त्वादित्यर्थः / अत एवेति / रासभादिसाधारण्यादेवेत्यर्थः। ननु रासभादिविलक्षणव्यक्तीनामेव कारणत्वं तत्त्वेनेत्यरुचेराह / द्रव्यत्वे सतीति / तद्व्यक्तेः कारणताप्रमाणकाभावादिति भावः / यस्मिन् सत्येवेति / यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने सत्यवेत्यर्थः। तदुक्तम् / सामान्यत इति / मकरन्दः। उभयत्र व्यक्तिमात्रापेक्षित्वेन यावत्पटापेक्षणीयापेक्षित्वं घटस्य बोध्यम् / एवं पूर्ववर्त्तिमात्रापेक्षित्वेन यावत्पटादिजनकजन्यत्वं घटादेर्बोध्यम् / अत एवेति। रासभादिसाधारण्यादेवेत्यर्थः / यस्मिन् सत्येवेति / यद्धर्मावच्छिन्ने सत्येव सहकारिसमवधानात कायं भवति तदवच्छिन्नं कारणमित्यर्थः / तदिदमाह / सामान्यत इति / यागादौ बहुवित्तव्ययायाससाध्ये फलावश्यम्भाव (1) प्रसङ्ग इति पाठान्तरम् / 12 न्या००