________________ 88 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 6 कारिकाव्याख्यायो पपन्नम् / एवं तहि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दहनाऽपेक्षेति न धूमादिसामान्यावह्निसामान्यादिसिद्धिः।। __ एतेन व्यतिरेको व्याख्यातः। तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभाव. स्थाप्यसिद्धगतमनुमानेनेति चेत् / बोधनी। दहनादीनामुपयोग इत्यपि सम्भवान्न धूमादिमात्रादहनाद्यनुमानसिद्धिरित्याह-एवं तर्हि-इति / एतेन धूमादिविशेषस्य दहनाद्यपेक्षत्वसम्भावनाप्रतिपादनेन दहनादिव्य तिरेकान धूमादिमात्रव्यतिरेकोऽपि सिद्धयतीत्याह-एतेन-इति / एवं चानुमानमात्रोच्छेद एव स्यादित्याह-तथाचइति। शिंशपाया वृक्षत्वस्वभाव इत्येतद् वृक्षे शिंशपात्वानुपलब्ध्या लिङ्गेन शिंशपात्वव्यति. रेकोऽनुमानात् सिद्धयति, तेन व्यतिरेकासिद्धौ स्वभावस्यासिद्धेरनुमानमात्रोच्छेद एव इति / प्रकाशः। व्यक्तिविशेष प्रति तदुभयव्यक्तयोरनन्यथासिद्धयोः कारणत्वं गृह्यते इत्येषा दिक् / / ननुः कार्यवैजात्ये तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्रे इति शङ्कया न कार्यात् कारणं क्वाप्यनुमीयेत / यदि चोपस्थितरूपे व्यभिचाराभावात्तेनैव रूपेण कार्यत्वग्रहस्तर्हि कारणतायामपि यत्रोपस्थितरूपे व्यभिचारस्तोव रूपान्तरेण कारणताग्रह इति तुल्यमित्याह / एवं तीति / एवं वझेंडूंमविशेष एव प्रयोजकत्वाद् वह्निमात्रव्यतिरेकाद् धूममात्रव्यतिरेको नानुमीयेतेत्याह / एतेनेति। निषेध्यतयेति शेषः / तथा चेति। विपक्षबा. धकमानवेंदनीयो हि स्वभावनियमो बौद्धानाम् / बाधकं च कार्यानुपलब्धी, ततस्तद्भङ्गे कथमनुपायकः सिद्धयेदित्यनुमानमात्रविलयात्रिधैव तदुपगमादित्यर्थः / तदेतद् दूषणं बीजत्वसामान्य प्रत्यक्षसिद्धमङ्कुरे न प्रयोजकं, किन्तु तद्विशेषः कुर्बद्रूपत्वमतीन्द्रियमिति वदतो बौद्धस्य, प्रकाशिका ऽस्ति द्वयमवच्छेदकं समवायिकारणनाशसमानकालीनसमवेतनाशत्वमसमवायिनाशसमानकालीनद्रव्यनाशत्वञ्चेति उभयावच्छेदेनोभयोः कारणत्वमित्यभिसन्धायाह / दिगिति / मकरन्द भवायिनाशसहितसमवायिनाशत्वेन हेतुत्वमस्तु / तथाच कथं व्यक्तिविशेषे व्यक्तिविशेषस्य हेतुत्वम् ? अन्यथा अनन्तसामग्रीकल्पनापत्तेरिति वाच्यम् / तत्रैव तात्पर्यात् / नचात्राप्यन्यतर. स्यावच्छेदकत्वे विनिगमकाभावः। असमवायिनाशत्वादिना तदुभयोरपि हेतुत्वादेव / अत एव सामग्रीभेदः / अन्यत्रान्तरस्यैव हेतुत्वात् / नचात्राप्यन्यतरस्यैव हेतुत्वमस्तु, कार्यतावच्छेदकोंदाच्च सामग्रीभेद इति वाच्यम् / विनिगमनाविरहेणोभयोरपि तुल्यत्वात् / वस्तुतस्तु समवायि. कारणनाशाद् द्रव्यगुणकर्मणां नाशदर्शनात् तत्तन्नाशस्याननुगमादनुगतस्य सति सम्भवे त्यागायोगादविद्यमानाश्रयकासमवेतकार्यनाशत्वावच्छेदेनास्य हेतुत्वकल्पना द्रव्यनाशेऽपि तथा / तथाच युगपत् समवाय्यसमवायिनाशयोरुत्पत्तावपि तन्निष्ठकार्यमात्रनाश एवाश्रयनाशो हेतुः। तथाच न सामग्रीभेदः / अत एव समवायिनाशस्थलेऽपि तज्जन्यासमवायिनाशस्यैव द्रव्यनाशकत्वं क्लुप्तत्वादित्यपास्तम् / गुणादिनाशे तस्यापि क्लृप्तत्वात् / किञ्चाविद्यमानाश्रयकद्रव्यनाशे आश्रयनाशो हेतुरविद्यमानासमवायिकारणकद्रव्यनाशेऽसमवायिनाशो हेतुरस्तु / तथाच क्लृप्तसामग्रीत एव प्रकृतकार्योपपत्तौ न सामग्रीभेदः / अविद्यमानता च द्रव्यनाशपूर्वक्षणे बोध्या। तेन सत्समकालाविद्यमानत्वमादाय न व्यभिचार इति विद्वद्भिः परिचिन्तनीयमिति / एतत् सर्वमभिसन्धायोक्तं दिगिति॥