________________ प्रथमस्तवके ] .. स्वभावकारणतावादखण्डनम् / प्रकाशः। रीत्याऽन्योन्याश्रयात् / उच्यते। निमित्तकारणेतरकारणनाशत्वेन कारणत्वम् / यद्वा, विद्यमानाश्रयद्रव्यनाशे असमवायिनाशो हेतुरेवं साऽसमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयनाशः। तथाप्युभयजन्ये द्रव्यनाशे का गतिः ? आश्रयनाशाजन्यद्रव्यनाशं प्रत्यसमवायिनाशस्य हेतुत्वात् तस्य चाश्रयनाशजन्यत्वात् / अत्राहुः / तत्रेतरसमवधाने तदुभयभावाभावाभ्यां व्यक्तिविशेषभावाभावाद् प्रकाशिका। सत्येवानतिप्रसक्तत्वेन ग्राह्यमिति परस्पराश्रय इत्यर्थः / न तु प्रतियोगिप्रसिद्धयर्थं मणिजन्यत्वग्रहोवहावपेक्षणीय इत्यर्थो रूपादावेव मणिनिष्ठे प्रतियोगिप्रसिद्धरिति / निमित्तकारणेति / नचैवमपीन्धननाशजन्यवह्निनाशेऽदृष्टनाशजन्यशरीरनाशे च व्यभिचार इति वाच्यम् / इन्धननाशादेवानलान्तरं नोत्पद्यते पूर्वानलस्तु स्वावयवक्रियाविभागादिन्यायेनैव नश्यति, एवं शरीरमपीति स्वीकारात् / नच निमित्तकारणत्वं समवाय्यसमवाय्यन्यत्वमिति तदन्यकारणनाशत्वेन कारणत्वमायातम् / नवान्यान्यत्वमवच्छेदकमिति वाच्यम् / तस्य कारणतानवच्छेदकत्वेऽपि तत्कोटिप्रवेशे बाधकाभावात् सामान्ये सामान्यस्याप्रयोजकत्वेऽपि विशेषे विशेषस्य प्रयोजकत्वमविरुद्धमेवेत्याशयेनाह / यद्वति / तथाप्युभयेति / उभयनाशोत्तरभाविनीत्यर्थः / आश्रयनाशाजन्येत्याद्युपलक्षणम् / अव्यवहितपूर्वविद्यमानासमवायिकारणकद्रव्यनाशेऽपि समवायिकारणनाशस्य हेतुत्वात् प्रकृतनाशस्य चासमवायिकारणनाशोत्तरकालीनत्वादित्यपि द्रष्टव्यम् / तत्रेतरेति / अव्यवहितविद्यमानोभयद्रव्यनाश उभयनाशस्य दण्डचक्रवत्कारणत्वमिति भावः। यथाश्रुतेऽनन्तकारणताकल्पनापतः। यत्वसमवायिकारणनाशसहितसमवायिकारणनाशत्वेन हेतुत्वे तात्पर्यमिति / तन्न / विशेज्यविशेषणभावे विनिगमकाभावात् / किञ्च समवायिकारणसमानकालीनद्रव्यस्य नाशे ऽसमवायिकारणनाश एवासवायिनाशसमानकालीनस्य तस्य नाशे समवायिनाशो हेतुरेवं चोभयोत्तरकालीने फलत उभयनाशो हेतुः। वस्तुतो द्रव्यनाशं प्रत्यसमवायिकारणनाशस्य द्वयणुकादिनाशस्थले कारणत्वावधारणात् यत्रापि समवायिकारणनाशानन्तरं द्रव्यनाशस्तत्राप्यसमवायिकारणनाश एव नाशकः, न चैवं क्षणद्वय आश्रयं विना कार्यस्वीकारापत्तिः / प्रथमक्षणऽनाश्रितत्वबत् , द्वितीयक्षणेऽपि तथास्वीकाराविरोधात्, एवं च सति गुणकर्मादिनाशे समवायिकारणनाशस्य कारणत्वे कल्प्यमाने सामान्यत एव समवायिकारणनाशसमानकाली स्य समवेतस्य नाशे समवायिकारणनाशः कारणत्वेन कलप्यते अनुगमानुरोधादित्यैव वीजमाश्रयनाशस्य द्रव्यनाशहेतुत्वे, तथा चोदाहृतनाशे मकरन्दः। हेतुत्वग्रहानुपपत्तेः / तथा च विशेषणोपादानायासोऽपि व्यर्थ इति भावः। निमित्तकारणेति / न चेन्धननाशादपि वह्निनाशादननुगमः / तत्रेन्धननाशाद्वयन्तरं नोत्पद्यते / पूर्ववह्निस्त्ववयववि. भागन्यायेनैव नश्यतीत्युपगमात् / एवं शरीरनाशोऽपि नादृष्टनाशजन्य इत्यभ्युपगमेनेदम् / ननु निमित्तकारणत्वं समवाय्यसमवायिभिन्न कारणत्वमिति कारणत्वान्तर्भावे गौरवम् / तदनन्तर्भावे तदन्यान्यत्वमवच्छेदकं पर्यवस्यति / तच्चानभ्युपगतमिति चेन्न / तदन्यान्यनाशत्वस्यात्र तत्पर्यवसानात् / तथाच प्रतियोग्यनुगमकतया तत्प्रवेशे तद्धटितस्यावच्छेदकत्वं, न तु तस्यैव / अनभ्युपगतञ्च तदिति भावः / केचित्तु, एतदस्वरसादेवाह-यद्वति / तथापीति / न चाश्रयनाशे तदाश्रितद्रव्यतदसमवायिनोर्युगपदेव नाशादिदमसम्भवीति वा. च्यम् / समवायिनाशसमकालं विभागाद् यत्रासमवायिनाशस्तत्र तत्सम्भवात् / आश्रयनाशाजन्येत्युपलक्षणम् / असमवायिनाशाजन्यद्रव्यनाशं प्रत्याश्रयनाशस्य हेतुत्वात् , तस्य चासमवायिनाशजन्यत्वादित्यपि द्रष्टव्यम् / तत्रेतरेति / नचाविद्यमानोभयकद्रव्यनाशत्वावच्छिन्ने अस