________________ 86 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 6 कारिकाव्याख्यायो प्रकाशः। ___ मैवम् / उक्तग्राहकैर्वह्निनिष्ठकार्यतानिरूपितकारणतावच्छेदकरूपवत्त्वं तृणस्य तृणनिष्टकारणतानिरूपितकार्यतावच्छेदकरूपवत्त्वं वर्तेर्वा अकार्यकारणव्यावृत्तं परिच्छिद्यते, न तु तृणत्वेन कारणत्वं, वह्नित्वेन कार्यत्वं वा / तच्चोभयथाऽपि सम्भवति। वह्नित्वेन कार्यत्वमेकशक्तिमत्त्वेन कारणतया. वा, तृणत्वेन कारणता वह्निविशेषत्वेन कार्यतया वा / तत्र च विनिगमकमुक्तमेव / एतेन मण्याद्यजन्यवह्नौ तृणादीनां हेतुत्वं गृह्यते इत्यपास्तम् / अन्योन्याश्रयाच / मणिजन्यत्वग्रहे हि तदजन्यत्वग्रहः, तृणजन्यत्वेन च तद्ग्रह इति / तथापि यत्र कार्ये जात्यामावः सामग्रीभेदश्च तत्र का गतिः ? यया द्रव्यनाशः क्वचित् प्रतियोग्याश्रयनाशात् , क्वचिदसमवायिकारणनाशात् / नचाश्रयनाशाजन्यद्रव्यध्वंसत्वावच्छिन्नं प्रत्यसमवायिनाशस्य नियतत्वात् कारणत्वग्रहः / उक्त प्रकाशिका। त्यासत्त्वे अन्य कारणसत्त्वे च वन्हयापत्तेः। कारणतावच्छेदकात्रययकिञ्चित्समवधानस्य सत्त्वात् / यत्तु व्यभिचारादन्वयाद्यनुविधानमेव नास्तीति दूषणम् / तन / अरणिमण्यभाववति स्तोमे अन्वयव्यतिरेकानुविधानस्य तृणे सत्त्वादेवमितयोरपि / अन्यथा तृणादिकारणतामहाभावे कल्पनाभावे न शक्तिवैजात्यान्यतरकल्पनस्याप्यभावादिति / मिश्रास्तु वैजात्यमपि तत्रैवावच्छेदकं यत्रांनुभवसिद्धः, न तु कारणनियमानुरोधेन वैजात्यकल्पनं तद्व्यक्तिं प्रति तद्व्यक्तित्वेन नियमात् / अत एवोभयजन्यध्वंसे तद्व्यक्तिरेव नियम इति प्रकाशोऽपि सङ्गच्छते। नचैवमपूर्वतृणे वह्नयर्थिप्रवृत्यनुपपत्तिः / कारणतावच्छेदकानिश्चयादिति वाच्यम् / कारणताज्ञानस्यैव प्रवर्तकत्वात् न तु विशेषतः कारणतावच्छेदकज्ञानस्य / अत एवेदं ते ज्वरहरमित्याप्तवाक्यादनवगतेऽपि कारणतावच्छेदके प्रवर्तन्ते कारणताज्ञानश्च वैजात्यकल्पकत्वेन त्वयापि स्वीकरणीयमेव / तस्माद् यत्र वृश्चिकादावीषन्नीलत्वपीत्वादिकं प्रतीयते तत्र तन्नियामकत्वेन गोमयवृश्चिकादीनां कारणत्वेऽपि यत्र तृणादिजन्याग्निषु न विशेषप्रतीतिः तत्र तद्व्यक्त्योरेव कारणत्वं कार्यत्वं च / नचैवं यागदानादि. जन्यस्वर्गेष्वपि नावान्तरवैजात्यं स्यादिति वाच्यम् / तत्र बहुवित्तव्ययायाससाध्ये कर्मणि प्रकृ. त्यनुपपत्त्या वैजात्यस्यानुमानसिद्धत्वात् नहि प्रत्यक्षैव प्रमितिः, नच तृणजन्यत्वज्ञानानन्तरं वैजात्यप्रतीतिः प्रकृतेऽपीति वाच्यम् / तस्यास्तृणजन्यत्वोपाधिविषयकत्वात् / अन्यथा वह्निजनकतावच्छेदिका जातिरेकैव तृणादौ किमिति न कल्प्या त्रयाणां पार्थिवतया जातिसङ्कराप्रसङ्गात् / न च तथा सति सहकारिनियमानुपपत्तिः, तृणोत्तरभाविवह्नित्वाद्यवछिन्नं प्रति फूत्कारादीनां जनकत्वात् / नच तस्यां जातौ योग्यानुपलब्धिबाधः कार्यव्यङ्गतया तद्ग्रहादित्याहुः। उक्तग्राहकैरिति / अन्वयध्यतिरेकाभ्यां नियतेनान्वयेन चेति व्यक्तीरादाय बहुवचनम्। अकार्यकारणव्या. वृत्तमिति / कार्यकारणभावः सामान्यतः अत एव विशेषनिषेधमाह-न तु तृणत्वेनेत्यादि। एतेनेति / व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः / अन्योन्याश्रयाच्चेति / म. णिजन्यत्वग्रहे मणिजन्यवन्हित्वमपि सकलवन्हिवृत्तित्वेनैव ज्ञातमिति न तृणजन्यतावच्छेदकत्वेन ज्ञातुं शक्यते तथाच मणिजन्यत्वज्ञानमपेक्षणीयं तच्च तृणाजन्यत्वेन ग्राह्यं तदपि क्वचित्तणजन्यग्रहे मकरन्दः। उक्तग्राहकैरिति / अन्वयव्य तिरेकाभ्यां नियतेनान्वयेन चेति बहुवचनोपपत्तिः। अधिक. श्वानुमानप्रकाशे प्रपञ्चितम् / एतेनेतीति / व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः। अन्योन्याश्रयाच्चेति / वह्नौ मणिजन्यत्वे गृहीत एव मणिजन्यवह्निभिन्नवह्नित्वेन तृणजन्यत्वग्रहः, तृणजन्यत्वे च वहौ गृहीत एव तृणजन्यवह्निभिन्नवह्नित्वेन मणिजन्यत्वाह इत्यन्योन्याश्रयादित्यर्थः / अन्यथा वह्निमात्रस्यैव तदजन्यत्वेनोपस्थितौ वह्नित्वावच्छिन्न इतरव्यभिचारादेव