________________ प्रथमस्तवके] स्वभावकारणतावादखण्डनम् / 5 प्रकाशः। फूत्कारसमवधाने सति वा ? नाद्यः / फूत्कारायसमवधानेऽपि तस्मात् तृणादेरग्न्युत्पत्त्यापत्तेः / नापरः / तथा सति सैव शक्तिस्तृणे फूत्कारादरणौ निर्मन्थनादिति शक्तावनियतहेतुकत्वापत्तेः / तत्राप्ये कशक्तिमत्त्वेन हेतुत्वेऽनवस्थापत्तेरिति // मैवम् / यथा ह्यन्वयव्यतिरेकाभ्यां तृणफूत्कारयोरन्योन्यसहकारित्वं तथैव तच्छक्तयोरपि परस्परसहकारित्वेन वह्नयनुकूलत्वम् / तथैव कार्यदर्शनात् / न तु मणिफूत्कारयोः सहकारित्वमिति, न तच्छक्तयोरपि परस्परसहकारित्वम् / कार्यविशेषात् कारणविशेषाननुमानं तु वहिवृश्चि कादौविष्यत एव / निरूपितनियतवह्नयादिकारणके धूमादौ अनुमानं स्यादेव / अन्यथा कार्य्यवै. जात्येऽपि वह्वित्वेन धूमविशेष एव कारणत्वं, न धूममात्र इति शङ्कया तवाप्यनुमानं न स्यादिति / ____ अत्रास्मपितृचरणाः / तृगारणिमणिफूत्कारादिव्यक्तीनामनन्तत्वेन प्रतिव्यक्ति भावहेतुजानित्यानन्तशक्तिस्वीकारे गौरवम् / तावदनन्तव्यक्तिजन्यानन्तवह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव कल्प्यते / न च जातौ योग्यानुपलब्धिबाधः / गोमयवृश्चिकप्रभववृश्चिकयोरीषच्छथा. मत्वकपिलत्वव्यङ्ग यवै नात्यस्य प्रत्यक्षसिद्धत्वात् / तृणादिजन्याग्निष्वपि तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्तानुगतबुद्धर्जातिविषयत्वाद् बाधकाभावात् / ननु तृणादीनामग्नौ कारणत्वग्रहे शक्तिवेजात्ययोरन्यतरकल्पनम् / तद्ग्रहश्च नान्वयव्यतिरेकाभ्याम् / व्यभिचारात् / अथारणिमण्यभाववति स्तोमविशेषे तृणं विना न वह्निः तृणान्वयेऽवश्यं वह्रिरित्यन्वयव्यतिरेकाभ्यां, तत्रैव स्तोमे इतरकारणसमवधाने तृणान्वयेऽवश्यं वहिरिति नियतेनान्वयेन वा रासभव्यावृत्तेन तृणादिकारणताग्रह इति चेन्न / तृणं विनाऽपि वहिरिति ज्ञाने सति वहिनियतपूर्ववर्तित्वस्य कारणत्वस्य प्रहीतुमशक्यत्वात् / अबाधिताभावग्रहे भाव महस्याभावात् // प्रकाशिका शक्तिः फूत्कारजन्या वेति विकल्पार्थः। मनवस्थेति / उत्तरोत्तरमपि भिन्नभिनसहकारिपरंपराया एवं स्वीकारादिति भावः / तथैव तच्छक्योरपोति / तथा च कारणतावच्छेदकसाम्येऽपि तृणफूत्कारयोरेव समवहितयोः फलोपधानं स्वभावादिति भावः / वस्तुतः सम्वन्धानामेकशक्तिमत्त्वेन कारणत्वमित्यभिप्रायः। कारणतावच्छेदकयावद्धआश्रयैकैकव्यक्तिसमवधाने स्वभावविरहप्रयुक्तस्य फलानुपधानस्यादृष्टत्वात् यद्यप्ययमभिप्रायो न युक्तस्तरणिकिरणसमवहितमणेरपि वह्नयर्थिप्रवृत्तिविषयस्वापत्तेरुक्तत्वात् / तथापि स्फुटत्वात् तदुपेंक्ष्यान्यदाह / तृणेति / ननु जातित्रयकल्पनमपि किम थं वह्नयन्वयव्यतिरेकानुविधायित्वस्यैव तृणादौ वह्निकारणतावच्छेदकत्वात् , धमिकल्पनातो धर्मकल्पना लघीयसीति न्यायात् / मैवम् / अन्वयव्यतिरेकानुविधानस्य सहकार्यन्तरसाधारण्येन तृणादि. मकरन्दः / / स्कारप्राक्काल एव तृणे शक्तिस्तत्समवधाने तज्जन्या वेति विकल्पार्थः / तथैव तच्छक्त्योरपीति। यद्यप्येवं कार्यवैजात्यमावश्यकम् / एकजातीयकार्ये सहकारिनियमानुपपत्तेः / तथापि तृणफूत्कारसम्बन्ध-तरणिकिरणमणिसम्बन्धादिष्वप्येकजातीयशक्तिमत्त्वं कारणतावच्छेदकम् / तथा च तदन्यतमसम्बन्धाभावे तृणनिर्मन्थनसमवधानेऽपि नाग्न्युत्पत्त्यापत्तिरिति भावः / तृणेति / ननूक्तगौरवेण मा भूच्छक्तिकल्पना, जातिकल्पनाऽपि कुतः। यावता वह्नयनुविधायित्वमेव धर्मिकल्पनात इति न्यायेनावच्छेदकमस्तु / नचेदमेव बह्निजनकत्वं, येनास्माश्रयान्नावच्छेद्यावच्छेदकत्वं, किन्त्वनन्यथासिद्धयादिघटितमिति चेन्न / तदनुविधायित्वस्य सहकार्यन्तरसाधारणतया तत्सस्वे तृणाद्यन्यतमासत्त्वेऽपि वहथुत्पादापत्तेः / कारणतावच्छेदकावच्छिन्नयत्किञ्चित्सत्त्व एव कायोत्पादनात् /