________________ 4 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [6 कारिकाव्याख्यायो __ यस्तु तं नाकलयेत् , स कार्य्यसामान्येन कारणमात्रमनुमियादिति किमनु बोधनी। ननु कार्यावान्तरजातिभेदस्य दुरूहत्वात् कथं ततस्तृणादिविशेषानुमानमित्यत्राह-यस्त्विति / तमवान्तरजातिभेदं तृणादिजन्यमन्वयव्यतिरेकयोर्यत्नवानेवाकलय्य तृणादिकारणविशेषमनुमिनोति, यस्त्वलसो दुरूहमवान्तरजातिभेदं नावगच्छति स सामान्यमात्रात्सामान्यमानं तन्निवृत्तेश्च तन्निशत्तिमनुमिनुयात् का नो हानिरिति / ननु यदि तृणादीनामनुपलभ्यमानमग्न्यवान्तरजातिभेदं प्रत्युपयोगानाग्निमात्रदर्शिनस्तृणायनुमानसिद्धिः, एवं तनुपलक्ष्यमाणधूमाद्यवान्तरजातिभेदं प्रत्येव प्रकाशः। तदाकलने तु विशेषोऽप्यनुमीयत एवेत्याह / यस्त्विति / नन्वग्न्यवान्तरजातीये तृणादीनां कारणत्वं न युक्तम् , कारणगत्तैकशक्तिरूपमपहाय कार्यगतबहुतरजातिकल्पने गौरवात् / तृणादिजन्याग्निष्ववान्तरजातेोग्यानपलम्भबाधितत्वात् / यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजात्यमनुभूयते / तत्रैकशक्तिमत्त्वमपि कारणे नास्ति / अत एवानुमानमप्रयोजकम् / अथास्ति तृणादीनां फूत्कारादिसहकारिता / तत्र फूत्कारादीनां सहकारित्वं तृणत्वाद्यवच्छिन्नं प्रति स्यात् ? तृगादिसाधारणैकशक्तिमन्तं प्रति वा / नाद्यः / तृणत्वाद्यवच्छिन्नस्य प्राक्कालनैयत्याभावेन कारणत्वाभावात् तत्सहकारित्वस्य दूरनिरस्तत्वात् / नान्त्यः / तृणादिवाऽरणेरपि फूत्कारसमवहितादग्न्युत्पत्त्यापत्तेः / न च फूत्कारादिविशिष्टे तृणादौ शक्तिर्न केवल इति वाच्यम् / तस्य तृणादिभिन्नत्वे तृणादीनामजनकत्वापत्तेः / तदभिन्नत्वे च यत् तृणं फूत्कारेणोपधीयते, तत्र वा शक्तिः, प्रकाशिका। अत्र कारणविशेषप्रयोज्यधर्मवत्त्वमेव साध्यं, यथाश्रुतेन च पक्षधर्मतावललभ्यसाध्योपदर्शनं तेन न घटादौ, न वा ध्वंसे व्यभिचार इत्यवधेयम् / यद्यपि यथानिरुक्तसाध्ये सिद्धसाधनं जायमानत्वस्यैव हेतुत्वे व्यर्थविशेषणत्वञ्च वन्यवयवादिकारणप्रयोज्यवहेः सत्वात् तत्तत्कारणप्रयोज्यतत्तदवच्छेदकधर्मक्त्वाच्च कार्यमात्रस्य / तथापि तृणादिप्रयोज्यधर्मवत्त्वमेव सोध्यम् नियततत्तदर्थप्रवेशे न जायमानत्वं हेतुः। सामान्यव्याप्तौ च प्रदीपो दृष्टान्त इति भावः, प्रदीपादिदृष्टान्तोपादानप्रयासश्चात्तेजस्त्वायुपाधेः साध्याव्यापकत्वप्रदर्शनपरः। सहकारिपदश्चानन्यथासिद्धपरं नियतरासभो. त्तरभाविघटे व्यभिचारवारकमिति मिश्राः। वस्तुतो वह्नित्वादिति हेतुः यथाश्रुतमेव च साध्यं निय. तेत्यादिकञ्च विपक्षबाधकतर्कप्रदर्शनपरमिति ध्येयम् / अत एवेति / वस्तुतः स्वरूपासिद्धिरेव नियतेत्यादिहेतोर्नियतत्वं हि तृणादीनां वह्नित्वावच्छिन्ने वा तदवान्तरजात्यवच्छिन्ने वा उभयथापि स्वतः परतो वाऽसिद्धिः / नचोभयमतेऽपि शक्तिमत्त्वेन तृणत्वेन वा नियमोऽस्त्येवेति साधारणरूपो हेतुः सिद्ध एवेति वाच्यम् / तथा सति तृणादिप्रयोज्यवहौ सिद्धसाधनापत्तेः। तस्मात् तृणत्वावच्छिन्न. नियमाश्रयजन्यत्वेन तृणत्वावच्छिन्नप्रयोज्यधर्मवत्त्वं साध्यमिति स्वरूपासिद्धिरेव परमते / न च स्वमतेनैवाऽयं हेतुःसाध्यसिद्धिनियतसिद्धिकत्वादिति। तदभिन्नत्व चेति / फूत्कारप्राकाल एव तृणे मकरन्दः। सहकारिप्रयोज्यजातिकत्वस्य साध्यत्वात् / प्रकृते च पक्षधर्मताबलेन वह्नित्वव्याप्यैव सा जातिः सिद्धयतीति तथा प्रतिज्ञानात् / न चैवमपि ध्वंसे व्यभिचारः। जातिपदस्य धर्ममात्रपरत्वात् / प्रदीपादिदृष्टान्तोपादाननिर्बन्धश्चातेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनार्थमित्याहुः। वस्तुतस्तु साध्यदृष्टान्तालोचनेन वह्नित्वादिति हेतुरभिमतः / स्फुटत्वात् कण्ठरवेण नाभिहितः। नियतेत्यादिकञ्च विपक्षबाधप्रदर्शनपरमिति युक्तमुत्पश्यामः / ननु प्रागुक्तसहकारिनियम एव विपक्षबाधक इत्याह / अथेति / तदभिन्नत्वे चेति / फू