________________ स्वभावकारण 3 प्रथमस्तवके] स्वभावकारणतावादखण्डनम् / रनियमवत्तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् / दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो न तराञ्च कारीषः॥ बोधनी। समान्नियतसामग्रीव्यङ्गथाया जातेर्भेदोऽस्ति / नहि सामग्री भिद्यते न भिद्यते च कार्यमिति सम्भवति / तथा च प्रयोगः-तार्णाद्यग्नयोऽग्नित्वावान्तरजातिभेदवन्तः विलक्षणसामग्रीजन्यत्वात् तैलवा विलक्षणसामग्रीकप्रदीपादिवदिति / न च साध्यविकलो दृष्टान्त इत्याह-दृश्यते-चइति / प्रदीपादौ कार्यभेददर्शनादवान्तरजातिभेदोऽवश्याभ्युपगन्तव्य इति / प्रकाशः। पत्तेरित्यर्थः / न चानुपलब्धिबाधितं वैजात्यमित्याह / तेनेति। विवादपदमग्नयो वह्नित्वव्याप्यजातिमन्तः नियतसहकार्यनुप्रवेशेन जायमानवह्नित्वात् प्रदीपदारुदहनवदिति कारणविशेषसम्बन्धव्यङ्गयत्वात्तजातीनामित्यर्थः / न च दृष्टान्तः साध्यविकल इत्याह / दृश्यते चेति / तत्र तैलादिकारणविशेषव्यङ्गयत्वं यथा जातीनां, तथाऽत्रापीति नादृष्टचरकल्पनमित्यर्थः / यद्यपि दुरूहत्वान्नैष विशेष आपाततः स्फुरति, तथापि विशेषानाकलनेऽपि तदनुकूलकारणमात्रमनुमीयते, प्रकाशिका न्यत्वमवच्छेदकं न तु सर्वत्रेति न दण्डवेमादीनां घटपटाद्यन्यान्यत्वावच्छिन्नकारणत्वशङ्का न तु वह्नौ तृणादिजन्ये वैजात्यमनुभूयत इति / तथाप्येवं मणेरपि तृणफूत्कारविशेषसंयोगसहकारित्वे तरणिकिरणासमवहितमणेरपि रात्रौ वहयर्थिप्रवृत्तिविषयतापत्तिः / न च तरणिकिरणसम्बद्धमणेरेव जनकत्वं सम्बद्धानां तृणादीनां च स्वस्वनिष्ठान्यान्यत्वेन जनकत्वे भवदुक्तनियमस्यैवानुपपत्तेः। न च सम्बन्धमात्रमेव कारणं न तु मण्यादीति वाच्यम् / उपजीव्यबाधात् / अन्वयव्यतिरेकगृहीततृ. णादिकारणतारक्षार्थमेव कारणप्रत्यासत्तितया सम्बन्धानां कारणत्वस्वीकारादिति / मिश्रास्तु अन्यान्यत्वं न कारणतावच्छेदकम् तथासति तृणाद्यन्यस्य वन्यवयवादेरकारणतापत्तेः, भावाभावयोरेकत्राप्रयोजकत्वात् / नचैवं भवन्मतेऽपि तृणतदन्ययोः कथं वह्निप्रयोजकत्वमिति वाच्यम् / प्रयो. ज़कप्रतियोगिकामावस्याप्रयोजकत्वमिति नियमशरीरत्वात् / त्वया च कारणीभूतवयवयवादि प्रतियोगिकस्यान्योन्याभावस्यावच्छेदकतया प्रयोजकत्वाभ्युपगमादिति वदन्ति / तच्चिन्त्यम् / भावाभावयोरेकत्राजनत्वेऽपि एकाप्रयोजकत्वे मानाभावात् / वस्तुतस्तु तदपि न / घटघटान्योन्याभावाविति समूहालम्बनस्थले व्यभिचारात् / नच कारणाभावस्य न कारणतावच्छेदकत्वमिति नियमः, अप्रयोजकत्वादिति दिक् / विवादपदमिति। प्रदोपादावंशतः सिद्धसाधनवारणाय विशेषणमिदम्। मकरन्दः। स्यादिति घटपटान्यान्यत्वावच्छेदेन दण्डवेमान्यान्यत्वेन हेतुत्वापत्तिः / तथाचोक्तगौरवादतिप्रस. झाच्च न तदन्यान्यत्वमवच्छेदकमिति दिक् / यत्तु, नैक विरुद्धद्वयप्रयोज्यम् / भावाभावयोरेककार्यजनकतापत्तेः / अत एव न यागध्वंसेनापूर्वस्यान्यथासिद्धिः / तदिह वह्नित्वं यदि तृणाद्यन्यान्यप्रयोज्यं स्यादु , न स्यात्तदन्यवह्नयवयवादिप्रयोज्यं विरोधादिति। तच्चिन्त्यम् / एवं हि तृणप्रयोज्यत्वेऽपि तदन्यवयवयवादिप्रयोज्यत्वं विरुद्धथेत। यदि च तयोः परस्परविरहरूपत्वाभावात्तदुभयप्रयोज्यत्वं न विरुद्धं, तदा तुल्यम् / वयवयवत्वेनैव तस्य प्रयोजकत्वं, न तु तृणाद्य न्यान्यत्वेनेत्यपि तुल्यमिति।। विवादपदमिति / एतच्च प्रदीपादौ साध्यसिद्धया अंशतः सिद्धसाधनबारणार्थम् / नियतेति / ननु वृश्चिकादौ हेतुसत्त्वेऽपि साध्यासत्त्वाद्यभिचार इति चेत् / मैवम् / नियत.