________________ सुभाषितसूक्तरत्नमाला एषां च वस्त्रे न पतन्ति युका न देशभङ्गो न च राष्ट्रचिन्ता / पादोदकेनापि गदोपशान्तियुगप्रधाना मुनयो वदन्ति // 9 // धैर्य यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी, सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयम / शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजन, . एते यस्य कुटुम्बिनो वद सखे ! कस्माद् भयं योगिनः? // 10 // ये तीर्णा भववारिधि मुनिवरास्तेभ्यो नमस्कुर्महे, येषां नो विषयेषु गृध्यति मनो नो वा कषायैः प्लुतम् / रागद्वेषविमुक् प्रशान्तकलुषं साम्याप्तशर्माऽद्वयं / नित्यं खेलति प्राप्तसंयमगुणाक्रीडे भजद्भावनाः // 11 // स्वाध्यायमाधित्ससि नो प्रमादैः; शुद्धा न गुप्ती: समितीश्च धत्से / तपो द्विधा नार्जसि देहमोहादल्पेऽपि हेतौ दधसे कषायान् // 12 // परीषहान्नो सहसे न चोपसर्गान् न शीलाङ्गधरोऽपि चाऽसि / तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ? // 13 // युग्मम् // सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं, मार्जारी इंसबालं प्रणयपरिवशात्केकिकान्ता भुजङ्गम् /