________________ रत्नत्रयमाहात्म्यसूक्तानि 12 रत्नत्रयमाहात्म्यसूक्तानि सज्झानमूलशाली, दर्शनशाखश्च येन व्रततरुः / श्रद्धाजलेन सिक्तो, मुक्तिफलं तस्य स ददाति // 1 // मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटैरत्युग्रभ्रममुद्गराहतिवशात्संमूच्छितस्याऽनिशम् / संसारेऽत्र नियन्त्रितस्य निगडर्मायामयैश्चौरवत्, मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना // 2 // वयसमणधम्मसंजम-वेयावच्चं च वंभगुत्तीओ। नाणाइतियं तवकोहनिग्गहा इई चरणमेयं // 3 // पिंडविसोही समिई, भावण पडिमा य इंदियनिरोहो। पडिलेहणगुत्तीओ, अभिग्गहा चेव करणं तु // 4 // पञ्चाश्रवपरिहारः, कषायेन्द्रियनिग्रहः / त्रिदण्डविरतिः सप्त-दशधा संयमो भवेत् // 5 // देवलोकसमानो हि, पर्यायो यतीनां व्रते। रतानामरतानां च, महानरकसन्निभः // 6 // यदज्ञानाक्षिपेत्कर्म, वहीभिर्वर्षकोटिभिः। तत्कर्मोच्छ्वासमात्रेण, त्रिगुप्तो ज्ञानवान् क्षिपेत् // 7 / निर्जितमदमदनानां, वाक्कायमनोविकाररहितानां / विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् // 8 //