________________ स्त्नत्रयमाहात्म्यसूक्तानि वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजेयुदृष्टवा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् // 14 // यैः क्षुण्णाः प्रसद्विवेकपविना कोपादिभूमिभृतो, योगाभ्यासपरथवेन मथितो यर्मोहधात्रीरूहः। बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वरस्तान्मोक्षेकमुखानुषारसिकान्वन्दामहे योगिनः // 15 // यैस्त्यक्ता किल शाकिनीवदसमप्रेमाश्चिता प्रेयसि, लक्ष्मीः प्रागसमापि पन्नगवधूवत्प्रोज्झिता दूरतः / मुक्त चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं, निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः // 16 // यः परवादे मूकः, परनारीवक्त्रवीक्षणेऽप्यन्धः। पङ्गुः परधनहरणे, स जयति लोके महापुरुषः // 17 // आक्रोशेन न दयते न च चटुप्रोक्त्या समानन्द्यते, दुर्गन्धेन न वाध्यते न च सदा मोदेन संप्रीयते / स्त्रीरूपेण न रज्यते न च मृतश्वानेन विद्वेष्यते, माध्यस्थन विराजितो विजयते कोऽप्येष योगीश्वरः / / 18 // मित्रे नन्दति नैव नैव पिशुने वैरातुरं जायते, भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते।। रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते, येषां शुद्यहृदां सदैव हृदयं ते योगिनो योगिनः // 19 // ..