________________ सुभाषितसूक्तरत्नमाला काष्ठाङ्गावरणैर्दुमाः शुकवराः पाठैका ध्यानकैः, किं शुध्यन्ति? न भावशुद्धिरहिताः सर्वाःक्रिया निष्फलाः // 7 // पुनः प्रभातं पुनरेव शर्वरी, पुनः शशाङ्कः पुनरुत्थितो रविः / / कालस्य किं गच्छति ? याति जीवितं, तथाऽपि मूढः स्वहितं न बुध्यते // 8 // दिवसरजन्यौ सायं प्रातः, शिशिरवसन्तौ पुनरायातः तौ / कालः क्रीडति गच्छत्यायु-विरमति नायमविद्यावायुः // 9 // प्रहरद्वयमार्गेऽपि, नराः कुर्वन्ति शम्बलम् / न कुर्वन्ति परत्रार्थे, वर्षकोटिप्रयाणके // 10 // ग्रामान्तरे विहितशम्बलकः प्रयाति, , सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा / मृहस्तु दीर्घपरलोकपथप्रयाणे, पाथेयमात्रमपि नो विदधात्यधन्यः // 11 // जागर्ति यावदिह कालभुजङ्गमो नो, पश्चाननः स्वपिति यावदयं च कामः। . यावद्विवेकनिहताऽस्ति च मोहरात्रिनिर्गच्छ संसृतिवनाद् निभृतोऽङ्ग ! तावत् // 12 // जिनधर्मविनिर्मुक्तो, मा भूवं चक्रवर्त्यपि। स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः // 13 //