________________ भाषसूक्तानि . 11 भावसूक्तानि न कृतं सुकृतं किञ्चित् , सतां च स्मरणोचितम् / मनोरथैकसाराणां, एवमेव गतं वयः॥१॥ यन्मयोपार्जितं पुण्यं, जिनशासनसेवया। जिनशासनसेवैव, तेन मेऽस्तु भवे भवे // 2 // सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा / पुराकृतं कर्म तदेव भुज्यते, पुरुष! हे ! निस्तर तत्त्वया कृतम्॥३॥ शत्रुर्दहति संयोगे, वियोगे मित्रमप्यहो ! / उभयो दुःखदायित्वात् , को भेदः शत्रुमित्रयोः ? // 4 // हत्त्वा नृपं पतिमुपेक्ष्य भुजङ्गदष्टं, देशान्तरे विधिवशाद् गणिकाऽस्मि जाता। पुत्रस्य भोगमभिगम्य चितां प्रविष्टा, शोचामि गोपगृहिणी कथमद्य तक्रम् // 5 // इहोपपत्तिर्मम केन कर्मणा, व च प्रयातव्यमितो भवादिति / विचारणा यस्य न जायते हृदि, कथं स धर्मप्रवणो भविष्यति ? // 6 // ज्वालाभिः शलभा जलैर्जलचरा: स्फूर्जज्जटाभिवटाः, मुण्डैश्वोरुणकाः समस्तपशबो नग्नैः खरा भस्मभिः /