________________ 32 सुभाषितसूक्तरत्नमाला उन्मीलन्ति महर्द्धयः कलयति ध्वंसचयः कर्मणां, खाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् // 15 // रसरुधिरमांसदो-स्थिमज्जा शुक्राण्यनेन तप्यन्ते / कर्माणि चाशुभानीत्यतस्तपो नाम नरूक्तम् // 16 // यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलः, ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् / यत्प्रयूहतमःसमूहदिवसो यल्लब्धिलक्ष्मीलता,मूलं तद्विविधं यथाविधितपः कुर्वीत वीतस्पृहः // 17 / / दुर्लभं सुलभं वक्रं, सरलं वास्थिरं स्थिरम् / दुःसाध्यं च सुसाध्यं स्या-त्तपोभिरमलैर्नृणाम् // 18 // भवैरनेकैराचीर्णा-न्येनांस्यतिमहान्त्यपि / सम्यगालोचनापूर्व, शुद्धयत्येव तपः सृजन् // 19 // निःसंदेहमयं देहस्तेषामेव फलेग्रहिः। साहाय्येनास्य यैस्तेपे, महोदयफलं तपः // 20 // अहमभत्ते कोडी, कोडाकोडी य दसमभत्तंमि / अओ परं बहुनिज्जर-हेऊ नूणं तवो भणिओ॥२१॥ सटिं वाससहस्साइं, अविलंब अंबिलाइं बिहिआई / जाए निक्खमणकए, सा सुन्दरी साविया धन्ना // 22 // अथिरं पि थिरं वंक-पि उज्जुयं दुल्लहं सुलहं हवइ / दुस्सझं पि सुसज्झ, तवेण सम्पज्जए कज्जम् // 23 //