________________ . शीलधर्ममाहात्म्यसूक्तानि 9 शीलधर्ममाहात्म्यसूक्तानि वेश्या रागवती सदा तदनुगा षड्भिरसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो ! नव्यो वयः संगमः। कालोऽयं जलदाविलस्तदपि यः कामं जिगायाऽऽदरात् , तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् // 1 // गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एक: शकटालनन्दनः॥ रेकाम ! वामनयना तव मुख्यमस्त्रं, वीरा वसन्त-पिक-पञ्चम-चन्द्रमुख्याः / त्वत्सेवका हरि-विरश्चि-महेश्वराद्याः, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? // 3 // श्रीनन्दिषेण-रथनेनि-मुनीश्वराईबुध्या त्वया मदन ! रे ! मुनिरेष दृष्टः / ज्ञातं न नेमि-मुनिजम्बू-सुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् // 4 // श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव / देवोऽद्रिदुर्गमधिरुह्य जिगाय मोह, यन्मोहनालयमयं तु वशी प्रविश्य // 5 //