________________ सुभाषितसूतरत्नमाला किं तेन हेमगिरिणा रजताद्रिणा वा, . यत्राश्रितास्तु तरवस्तरवस्त एव / मन्यामहे मलयमेव यदाश्रयेण, कङ्कोलनिम्बकुटजा अपि चन्दनानि // 6 // अन्ये ते खलु नीरदा जलधरास्तृष्णां विनिघ्नन्ति ये, भ्रातश्चातक ! किं वृथाऽत्र रटितैः खिन्नोसि विश्राम्यताम् / मेघः शारद एष काशधवलः पानीयरिक्तोदरो, गर्जत्येव हि केवलं भृशमपां नो बिन्दुमुद्यच्छति // 7 // प्रापितेन चटुकाकुविडम्बं, लम्भितेन बहुयाचनलज्जाम् / अर्थिना यदघमय॑ते दाता, तन्न लुम्पति विलम्ब्य ददानः॥८॥ याचमानजनमानसवृत्तेः, पूरणाय बत जन्म न यस्य / तेन भूमिरिह भारवतीयं, न द्रुमैन गिरिभिर्न समुद्रः॥९॥ तणलहुओ तूसलहुओ, तहेव लहुआओ मग्गणो लहुओ। पत्थगावि हु लहुयरो, पत्थणाभङ्गो को जेण // 10 // लघुधली तृणं तस्या-स्तृणात्तूलं ततोऽनिलः। ततोऽपि याचकस्तस्मा-दपि याचकवञ्चकः // 11 // हिंसेव सर्वपापानां, मिथ्यात्वमिव कर्मणाम् / राजयक्ष्मेव रोगानां, लोमः साहसां गुरुः॥१२॥