________________ कुपात्र-कार्पण्ययोः सूक्तानि गरुए अणोरपारे, रयणनिहाणे अ सायरे पत्तो। छिद्दघडो न भरिज्जइ, ता किं दोसो जलनिहिस्स ? // 3 // उत्तुंगो सरलतरू, बहुफलभारेण नमिअसव्वंगो / कुज्जो फलं न पावइ, ता किं दोसो तरुवरस्स ? // 4 // दत्ते पुनः कुपात्रेभ्यः, श्रद्धाधानं विवेकिभिः / तदीय दुश्चरित्राणां, कृतं स्यादुपबृहणम् // 5 // 8 कार्पण्यसूक्तानि अस्ति जलं जलराशी, क्षारं तत् किं विधीयते तेन ? / लघुरपि वरं स कूपो, यत्राऽऽकण्ठं जनः पिबति // 1 // अनया रस्नसमृद्धया, सागर ! किं स्फुरसि बहुललहरीभिः / तव वल्लभा वराक्यो, वहन्ति वर्षास्वपि जलानि // 2 // वितर वारिद ! वारि तृषातुरे, त्वरितमुद्यतचातकयाचके। मरुति विस्फुरति क्षणमन्यथा, क्व च भवान् क्य एषः क्व स चातकः ? // 3 // कीटिकासंचितं धान्यं, मक्षिकासंचितं मधु / कृपणैः संचिता लक्ष्मी-रन्यैरेवोपभुज्यते // 4 // कृपणेन समो दाता, न भूतो न भविष्यति / अस्पृशन्नेव स्वं वित्तं, परेभ्यः संप्रयच्छति // 5 //