________________ 28 सुभाषितसूक्तरत्नमाला कुण्डले नाभिजानामि, नाभिजानामि कङ्कणे / नुपूरे त्वभिजानामि, नित्यं पादाब्जवन्दनात् // 6 // सौन्दर्यैकनिधेः कलाकुलविधेावण्यपाथोनिधेः, पीनोत्तुङ्गपयोधरालसगते पातालकन्याकृतेः। कान्ताया नवयौवनाश्चिततनोयरुज्झितः संगमः, सम्यग् मानसगोचरे चरति किं तेषां हताशः स्मरः // 7 // शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता, प्रोद्गच्छत्सुमनोभिषङ्गसुभगा स्त्रीणां कथावल्लरी। थैर्ब्रह्मवतपावकेन परितो भस्मावशेषीकृता, किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षोऽपि रे ! // 8 // आताम्रायतलोचनाभिरनिशं संतय॑ संतयं च, क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभि शम् / तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां, येषां शुद्धविवेकवत्रफलकं पार्श्वे परिभ्राम्यति // 9 // अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते, धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा / आसीद्यावदनङ्गसङ्गतिरसस्तावत्तवेयं स्थितिः, सम्प्रत्यास्यपुरःसरामपि न तां द्रष्टाऽसि कोऽयं लयः ? // 10 // सम्यक् परिहृता येन, कामिनी गजगामिनी। किं करिष्यति रुष्टोऽपि, तस्य वीरवरः स्मरः // 11 //