________________ संघसूक्तानि कदा किल भविष्यन्ति, मद्गृहाङ्गणभूमयः / श्रीसङ्घचरणाम्भोजरजोराजिपवित्रिता:॥५।। अर्हतामपि मान्योऽयं, पूज्यः पुण्यवतामपि / सेव्यः मुरासुरेशानां, सङ्घः पूज्यतमो बुद्धः // 6 // सङ्घः सद्गुणसंघसंहतिकरः सङ्घो जिनैन्दितः, सङ्घः शासनदिहेतुरसत्सङ्घः सतां मुक्तिदः / सद्भक्त्या विहि शुजार्जितधनैः सङ्घस्य यः पूजनं, किं तैन म न पूजितं सुकुतिभिः किं वा न लब्धं फलम् // 7 // कल्पोवीसंततिस्तदजिरे चिन्तामणिस्तत्करे, श्लाघ्या कामदुधाऽनघा च मुरभिः तस्यावतीर्णा गृहे। त्रैलोक्याधिपतिन्बसाधनसहा श्रीस्तन्मुखं वीक्षते, सङ्घो यस्य गृहाङ्गणं गुणनिधिः पादैः समाक्रामति // 8 // पंचपरमिद्विश्यणाई, बहुमुल्लाई जस्स मज्झम्मि / उप्पज्जति सयावि हु, स सङ्घरयणायरो जयउ // 9 // चक्रे तेन जिनार्चनं सविदधे सम्यग्गुरूपासनं, तत्त्वं तेन जिनागमस्य कलितं सङ्घोन्नतिं स व्यधात् / सत्यंकारितमेव तेन सुधिया निर्वाणस्वर्गाऽद्भुतं, यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव // 10 //